________________
षड्दर्शन समुश्चय भाग - २, श्लोक - ५७, जैनदर्शन
६८९
રાખતા હોવાથી) વિરુદ્ધ બની જાય છે. અર્થાત્ પરવાદિ પ્રયુક્તસર્વે હેતુઓમાં વિરુદ્ધતા આવે છે. કારણ કે એકાંતથી વિરુદ્ધ અનેકાંતને વ્યાપ્ત છે.
तथाऽसिद्धतापि सर्वसाधनधर्माणामुन्नेया, यतो हेतुः सामान्यं वा भवेद्विशेषो वा तदुभयं वानुभयं वा । न तावत्सामान्यं हेतुः । तद्धि सकलव्यापि सकलस्वाश्रयव्यापि वा हेतुत्वेनोपादीयमानं प्रत्यक्षसिद्धं वा स्यात्तदनुमानसिद्धं वा । न तावत्प्रत्यक्षसिद्धं, प्रत्यक्ष ह्यक्षानुसारितया प्रवर्त्तते । अक्षं च नियतदेशादिनैव संनिकृष्यते । अतोऽक्षानुसारि ज्ञानं नियतदेशादावेव प्रवर्तितुमुत्सहते, न सकलकालदेशव्यापिनि । अथ नियतदेशस्वरूपाव्यतिरेकात्तन्निश्चये तस्यापि निश्चय इति चेत् ? न, नियतदेशस्वरूपाव्यतिरेके नियतदेशतैव स्यात्, न व्यापिता, तन्न व्यापिसामान्यरूपो हेतुः प्रत्यक्षसिद्धः । अनुमानसिद्धतायामनवस्थाराक्षसी दुर्निवारा । अनुमानेन हि लिङ्गग्रहणपूर्वकमेव प्रवर्त्तमानेन सामान्य साध्यते लिङ्गं च न विशेषरूपमिष्यते, अननुगमात् । सामान्यरूपं तु लिङ्गमगवतं वानवगतं वा भवेत् ? न तावदनवगतं, अनिष्टत्वादतिप्रसङ्गाश्च । अवगतं चेत् ? तदा तस्यावगमः प्रत्यक्षेणानुमानेन वा ? न प्रत्यक्षेण, संनिकृष्टग्राहित्वात्तस्य । नाप्यनुमानेन, तस्याप्यनुमानमन्तरेण लिङ्गग्रहणे . पुनस्तदेवावर्तते । तथा चानुमानानामानन्त्याधुगसहस्रैरप्येकलिङ्गिग्रहणं न भवेत् । अपि च, अशेषव्यक्त्याधेयस्वरूपं सामान्यं प्रत्यक्षानुमानाभ्यां निश्चीयमानं स्वाधारनिश्चयमुत्पादयेत् । स्वाधारनिश्चंयोऽपि निजाधारनिश्चयमिति सकलो जनः सर्वज्ञः प्रसज्यते । ટીકાનો ભાવાનુવાદ:
તે પ્રમાણે પરવાદિપ્રયુક્ત સર્વસાધનધર્મોની = સર્વસાધ્યના સાધક હેતુઓની અસિદ્ધતા પણ તર્કથી વિચારવી જોઈએ.
તમે બતાવો કે - તમારો હેતુ સામાન્યરૂપ છે કે વિશેષરૂપ છે? ઉભયરૂપ = સામાન્યવિશેષ ઉભયરૂપ છે કે ઉભયરૂપ નથી ?
જો હેતુ સામાન્યરૂપ હોય તો, તે સામાન્યરૂપ હેતુ સકલપદાર્થવ્યાપિ છે કે માત્ર તે પોતાના भाश्रय = व्यतिमीमा २3 छ ? (मानो ४५ पाठ ५२ २।.) तमे ४९॥ो 3 - ते સામાન્યરૂપ હેતુ પ્રત્યક્ષસિદ્ધ છે કે અનુમાનસિદ્ધ છે? અર્થાત્ તે સામાન્યરૂપહે, પ્રત્યક્ષથી જણાય છે કે અનુમાનથી જણાય છે ?