________________
मतर्कमाषा । कत्वादिति । कृतकत्वं ह्यपरिणामित्वविरुद्धेन परिणामित्वेन व्याप्तमिति ।
। अथ अनकान्तकहेत्वाभागनिरूपणम् ।। यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः । स द्वेधा ५ निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । आद्यो यथा नित्यः शब्दः प्रमेयत्वात् । अत्र हि प्रमेयत्वस्य वृत्तिनिये व्योमादौ सपक्ष इव विपक्षेनित्ये घटादावपि निश्चिता । द्वितीयो यथा अभिमतः सर्वज्ञो न भवति वक्तृत्वादिति । अत्र
हि वक्तृत्वं विपक्षे सर्वज्ञे संदिग्धवृत्तिकम् , सर्वज्ञः किं वक्ताऽऽ१० होखिन्नति सन्देहात् । एवं स श्यामो मित्रापुत्रत्वादित्याद्य प्युदाहार्यम् ।
अकिश्चित्कराख्यश्चतुर्थोऽपि हेत्वाभासभेदो धर्मभूषणेनो. दाहृतो न श्रद्धेयः। सिद्धसाधनो बाधितविषयश्चेति द्विविध
स्याप्यप्रयोजकाह्वयस्य तस्य प्रतीत-निराकृताख्यपक्षाभासभे१५ दानतिरिक्तत्वात् । न च यत्र पक्षदोषस्तत्रावश्यं हेतुदोषोऽपि
वाच्यः, दृष्टान्तादिदोषस्याप्यवश्यं वाच्यत्वापत्तेः । एतेन कालात्ययापदिष्टोऽपि प्रत्युक्तो वेदितव्यः । प्रकरणसमोऽपि नातिरिच्यते, तुल्यबलसाध्य तद्विपर्ययसाधकहेतुद्वयरूपे सत्य
सत्यस्मिन् प्रकृतसाध्यसाधनयोरन्यथानुपपत्त्यनिश्चयेऽसिद्ध २० एवान्तर्भावादिति संक्षेपः।
। अथ आनेमप्रमाणनिरूपणम् । आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । न च व्याप्तिग्रहणबलेनार्थप्रतिपादकत्वाद् धूमवदस्यानुमानेऽन्तर्भावः, कूटाकूट
कार्षापणनिरूपणप्रवणप्रत्यक्षवदभ्यासदशायां व्याप्तिग्रहनरपे२५ क्ष्येणैवास्यार्थबोधकत्वात् । यथास्थितार्थपरिज्ञानपूर्वकहितोपदे
शप्रवण आप्तः । वर्णपदवाक्यात्मकं तद्वचनम् । वर्णोऽकारादिः पौद्गलिकः । पदं सङ्केतवत् । अन्योऽन्यापेक्षाणां पदानां समुदायो वाक्यम् ।