________________
१. प्रमाणपरिच्छेदः ।
भद्रपदोहामानवगमात् । नास्त्यत्र सम्यग्ज्ञानम् , सम्यग्दर्शनानुपलब्धेरिति । सोऽयमनेकविधोऽन्यथानुपपत्त्येकलक्षणो हेतुरुतोऽतोऽन्यो हेत्वाभासः ।
। अथ हेत्वाभासनिरूपणम् । स त्रेधा-असिद्धविरुद्धानकान्तिकभेदात् । तत्राप्रतीयमान- ५ स्वरूपो हेतुरसिद्धः। स्वरूपाप्रतीतिश्चाज्ञानात्सन्देहाद्विपर्ययाद्वा। स द्विविधः-उभयासिद्धोऽन्यतरासिद्धश्च । आद्यो यथा शब्दः परिणामी चाक्षुषत्वादिति । द्वितीयो यथा अचेतनास्तरवः, विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात् , अचेतनाः सुखादयः उत्पत्तिमत्त्वादिति वा।
नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति, तथाहि-परेणासिद्ध इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत, तदा प्रमाणाभावदुभयोरप्यसिद्धः । अथाचक्षीत तदा प्रमाणस्यापक्षपातित्वादुभयोरपि सिद्धः । अथ यावन्न परं प्रति प्रमाणेन प्रसाध्यते, तावत्तं प्रत्यसिद्ध इति चेत् ; गौणं तद्यसि- १५ द्वत्वम् , न हि रत्नादिपदार्थस्तत्त्वतोऽप्रतीयमानस्तावन्तमपि कालं मुख्यतया तदाभासः। किञ्च, अन्यतरासिद्धो यदा हेत्वाभासस्तदा वादी निगृहीतः स्यात्, न च निगृहीतस्य पश्चादनिग्रह इति युक्तम् । नापि हेतुसमर्थनं पश्चायुक्तम् , निग्रहान्तत्वाद्वादस्येति । अत्रोच्यते-यदा वादी सम्यग्घेतुत्वं प्रतिपद्य- २० मानोऽपि तत्समर्थनन्यायविस्मरणादिनिमित्तेन प्रतिवादिनं प्राश्निकान् वा प्रतिबोधयितुं न शक्नोति, असिद्धतामपि नानुमन्यते, तदान्यतरासिद्धत्वेनैव निगृह्यते । तथा, स्वयमनभ्युपगतोऽपि परस्य सिद्ध इत्येतावानै(इत्येतावतै)वोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणम् , यथा साङ्ख्यस्य जैनं २५ प्रति 'अचेतनाः सुखादय उत्पत्तिमत्त्वात् घटवत्' ।
। अथ विरुद्धहेत्वाभासनिरूपणम् । साध्यविपरीतव्याप्तो विरुद्धः। यथा अपरिणामी शब्दः कृत