________________
जैनतर्कभाषा । प्रमाणविकल्पसिद्धो धर्मी। प्रमाणोभयसिद्धयोर्धर्मिणोः साध्ये कामचारः। विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यत्वमिति नियमः तदुक्तम्-"विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये" [परी० ३. २३ ] इति । ५ अत्र यौद्धः सत्तामात्रस्यानभीप्सितत्वाद्विशिष्टसत्तासाधने वानन्वयाद्विकल्पसिद्धे धर्मिणि न सत्ता साध्येत्याह; तदसत्; इत्थं सति प्रकृतानुमानस्यापि भङ्गप्रसङ्गात्, वह्निमात्रस्यानभी. प्सितत्वाद्विशिष्टवद्धेश्वानन्वयादिति । अथ तत्र सत्तायां सा
ध्यायां तद्धेतुः-भावधर्मः, भावाभावधर्मः, अभावधर्मो बा १० स्यात् ? । आद्येऽसिद्धिः, असिद्धसत्ताके भावधर्मासिद्धेः। द्वितीये
व्यभिचारः, अस्तित्वाभाववत्यपि वृत्तेः । तृतीये च विरोधाभा (विरोधोऽभा)वधर्मस्य भावे कचिदप्यसम्भवात् , तदुक्तम्"नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ? ॥"
__ [प्रमाणवा० १. १९२] इति चेत्, न; इत्थं वह्निमद्धमत्वादिविकल्पवूमेन वदयनुमानस्याप्युच्छेदापत्तेः। ,
विकल्पस्याप्रमाणत्वाद्विकल्पसिद्धो धर्मी नास्त्येवेति नैयायिकः । तस्येत्थंवचनस्यैवानुपपत्तेस्तूष्णीम्भावापत्तिः, २० विकल्पसिद्धधर्मिणोऽप्रसिद्धौ तत्प्रतिषेधानुपपत्तेरिति ।
इदं त्ववधेयम्-विकल्पसिद्धस्य धर्मिणो नाखण्डस्यैव भानमसत्ख्यातिप्रसङ्गादिति, शब्दादेविशिष्टस्य तस्य [भा नाभ्युपगमे विशेषणस्य संशयेऽभावनिश्चये वा वैशिष्टयभा
[ना]नुपपत्तेः विशेषणाद्यंशे आहार्यारोपरूपा विकल्पात्मिकै२५ वानुमितिः स्वीकर्तव्या, देशकालसत्तालक्षणस्यास्तित्वस्य, सक
लदेशकालसत्ताऽभावलक्षणस्य च नास्तित्वस्य साधनेन परपरिकल्पितविपरीतारोपव्यवच्छेदमात्रस्य फलत्वात् । . .