________________
१. प्रमाणपरिच्छेदः । परार्थानुमानोपयोग्यभिधानम् , परार्थस्य स्वार्थपुरःसरत्वेनानतिभेदज्ञापनार्थम् ।
त्र्याप्तिग्रहणसमयापेक्षया माध्यं धर्म एव, अन्यथा तदनुपपत्तेः, आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी । इत्थं च स्वार्थानुमानस्य त्रीण्यङ्गानि ५ धर्मी साध्यं साधनं च । तत्र साधनं गमकत्वेनाङ्गम् , साध्यं तु गम्यत्वेन, धर्मी पुनः साध्यधमाधारत्वेन, आधारविशेषनिष्ठतया साध्याद्धे(साध्यसिद्धे)रनुमानप्रयोजनत्वात् । अथवा पक्षो हेतुरित्यङ्गद्वयं स्वार्थानुभाने, साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वात् इति धर्मधर्मिभेदाभेदविवक्षया पक्षद्वयं द्रष्टव्यम् । १०
धर्मिणः प्रसिद्धिश्च क्वचित्प्रमाणात् क्वचिद्विकल्पात् क्वचित्प्रमाणविकल्पाभ्याम् । तत्र निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम् । अनिश्चितप्रामाण्याप्रामाण्यप्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम् । तद्वयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वम् । तत्र प्रमाणसिद्धो धर्मी यथा धूमवत्त्वादग्नि- १५ मत्त्वे साध्ये पर्वतः, स खलु प्रत्यक्षेणानुभूयते । विकल्पसिद्धो धर्मी यथा सर्वज्ञोऽस्ति सुनिश्चितासम्भवद्भाधकप्रमाणत्वादित्यस्तित्वे साध्ये सर्वज्ञः, अथवा खरविषाणं नास्तीति नास्तित्वे साध्ये खरविषाणम् । अत्र हि सर्वज्ञवरविषाणे अस्तित्वनास्तित्वसिद्विभ्यां प्राग् विकल्पसिद्धे। उभयसिद्धो धर्मी यथा २० शब्दः परिणामी कृतकत्वादित्यत्र शब्दः, स हि वर्तमान(नः) प्रत्यक्षगम्यः, भूतो भविष्यंश्च विकल्पगम्यः, स सर्वोऽपि धर्मीति प्रमाणविकल्पसिद्धो धर्मी। प्रमाणोभयसिद्धयोर्धर्मिणोः साध्ये सर्वज्ञः, अथवा ग्वरविषाणं नास्तीति नास्तित्वे साध्ये खरविषाणम् । अत्र हि सर्वज्ञखरविषाणे अस्तित्वनास्तित्वसि- २५ द्विभ्यां प्राग् विकल्पसिद्धे । उभयसिद्धो धर्मी यथा शब्दः परिणामी कृतकत्वादित्यत्र शब्दः, स हि वर्तमान(न:) प्रत्यक्षगम्यः, भूतो भविष्यंश्च विकल्पगम्यः; स सर्वोऽपि धर्मीति