________________
२८४
जैनतर्कभाषा । किश्चास्याध्ययने भवेन्नु सुगमो यावद्विचारोद्गम
स्तावदृष्टिमुपागता कतिरियं श्रीतर्कभाषाभिधा । श्रीमद्वाचकपुङ्गवस्य यशसो वृद्धोक्तिसंवादिता
तट्टीकोदयसरिणा विरचिता रत्नप्रभाख्या मया ॥ १० ॥ श्रीमन्नेम्यभिधावतस्सुमहते श्रीमरिचूडामणेः
स्तीर्थोद्धारपरायणस्य कृतिनो विज्ञातशासाम्बुधः । सम्मत्यादिकवृत्तिगुम्फनपटोहेमप्रभादिप्रभा
नल्पोद्भावनतत्परस्य सुगुरोभेच्या कृतैषा प्रभा ॥११॥ श्रीसिद्धाचल तुल्यगौरवभृति श्रीमत्कदम्बाचले
पूर्णा व्योमखखादि सम्मिततमे चैक्रमीये शुमे। माघे नागतिथौ सिते रविदिने रत्नप्रमेयं सतां .
संमोदाय विचार्यमाणहृदयाऽस्त्वापुष्पदन्तोदयम् ॥ १२ ॥ टीकामेतां स्वगुरुरचितां साभिधेयां समग्रां
शुद्धीकृत्य प्रमुदितमना नन्दनाख्योऽपि सरिः। आशास्तेऽसौ जिनवरमतात्क्षुण्णमत्रास्ति यत्तत् क्षन्तव्यस्तात्सकरुणमनस्परिवर्यैस्समस्तम् ॥ १३ ॥