________________
प्रमाणपरिच्छेदः ।
२८१
चित्रादौ स्थाप्यते यच्चभिमतमतये शून्यमर्थन तुल्या.
कार वाऽऽकारहीनं तदिह ननु मतं स्थापनाख्यं द्वितीयं । द्वेधाप्येतच्च यावत्कथिकमथ भवेदित्वरं स्थापनेन्द्रः
शक्राकारेण तुल्योपरचितप्रतिमा स्थापिताश्चान्यथाऽपि ॥ ४३ ॥ हेतुर्निक्षिप्यते यः स तु जिनसमये द्रव्यनामा तृतीयः । ___ कार्यों भावोऽत्रभूतो भवतु भवतु वाऽनागतो नाग्रहोत्र। द्रव्येन्द्रो भूतशकोऽभिमत इह तथा भाविशनोऽपि साधु
प्राधान्येऽपि स स्यादथ तदनुपयोगेऽपि संयोजितीऽसौ ॥४४॥ मावो भावेऽभिषिक्तोऽनुपचरितनया स्वस्वरूपे चतुर्थो
भावेन्द्रश्शक्रमावो भवति सुरपतिर्मुख्य एवार्थकारी। नामादीनां त्रयाणामपि प्रतिनियतास्सन्ति केचिद्विशेषा . भावाभावविशेषे भवति ननु ततो भिन्नताऽन्योन्य मेषाम् ॥ ४५ ॥
भावात्वातिक्रमो नो यत इह निखिले वस्तुपर्यायभावो .
नामादाविन्द्रशब्दे कथित इह भवेन्केवले सर्वबोधः। .... किन्तु प्रत्येकबोधः प्रकरणप्रभृतेर्जायते तेन सेवे .
भावाङ्गत्वाश्च नान्या भवति परमसौ भावप्राधान्यमेषु ॥ ४६ ॥
एतच्चोक्तं विभिन्नार्थगतमननयाऽभिन्नवस्तुस्वरूपेऽ
प्यस्त्वेवैषां प्रवृत्तिः सकलमपि निजैर्वस्तुनामादिभिर्यत् । भावव्याप्तैर्विशिष्टं समधिगतमयं स्याच सिद्धान्तवादः
सर्वेषामेव तेषां प्रतिविषयमतस्वस्वनीतिप्रकाशः ॥ ४७ ॥
योज्या एते नयैस्स्युनियमितगतये सिद्धसेनस्य पक्ष
नामाद्याश्चन्द्रयस्स्युस्त्वनुमतिविषया द्रव्यनीतेन भाषः । मावः पर्यायनीतेरनुमतिपदवीं याति नामादिकी नो ... द्वौ मेदौ द्रव्यनीतेः ऋजुप्रमृतिनया पर्ववार्थस्य मान्या ४८॥