________________
जैनतर्कभाषा। . धर्मानुगृहीतेनापि मनसा पश्चेन्द्रियार्थज्ञानवदस्य जनयितुमशक्यत्वात्।
'कवल भोजिनः कैवल्यं न घटते' इति दिक्पटः; तन्न; आहारपर्यायसातवेदनीयोदयादिप्रसूतया कवलभुक्त्या कैवल्या- , ५ विरोधात् , घातिकर्मणामेव तद्विरोधित्वात् । दग्धरज्जुस्थानीयात्तत्तो न तदुत्पत्तिरिति चेत् ; नन्वेवं तादृशादायुषो भवोपग्रहोऽपि न स्यात् । किञ्च, औदारिकशरीरस्थितिः कथं कवलभुक्तिं विना भगवतः स्यात् । अनन्तवीर्यत्वेन तां विना तदुप
पत्तौ छद्मस्थावस्थायामप्यपरिमितबलत्वश्रवणाद् भुक्त्यभावः १० स्थादित्यन्यत्र विस्तरः । उक्तं प्रत्यक्षम् ।
। अथ परोक्षप्रभाणनिरुपणम् । अथ परोक्षमुच्यते-अस्पष्टं परोक्षम् । तच्च स्मरण-प्रत्य. भिज्ञान-तको-ऽनुमानाऽऽगमभेदतः पश्चप्रकारम् । अनुभवमात्रजन्यं ज्ञानं स्मरणम् , यथा तत् तीर्थकरबिम्बम् । न चेदमप्रमाणम् , प्रत्यक्षादिवत् अविसंवादकत्वात् । अतीततत्तांशे वर्तमानत्वविषयत्वादप्रमाणमिदमिति चेत् ; न; सर्वत्र विशेषणे विशेष्यकालभानानियमात् । अनुभवप्रमात्वपारतन्न्यादत्राप्रमात्वमिति चेत्, न; अनुमितेरपि व्याप्तिज्ञानादिप्रमात्वपारतन्त्र्ये
णाप्रमात्वप्रसङ्गात् । अनुमितेरुत्पत्तौ परापेक्षा, विषयपरिच्छेदे २० तु स्वातन्त्र्यमिति चेत्, न; स्मृतेरप्युत्पत्तावेवानुभवसव्यपेक्ष
त्वात् , स्वविषयपरिच्छेदे तु स्वातन्त्र्यात् । अनुभवविषयीकृतभावावभासिन्याः स्मृतेर्विषयपरिच्छेदेऽपि न स्वातन्त्र्यमिति चेत्; तर्हि व्याप्तिज्ञानादिविषयीकृतानर्थान् परिच्छिन्दत्या अनुमितेरपि प्रामाण्यं दूरत एव । नैयत्येनाऽभात एवार्थोऽनुमित्या २५ विषयीक्रियत इति चेत्, तर्हि तत्तयाऽभात एवार्थः स्मृत्या .. विषयीक्रियत इति तुल्यमिति न किञ्चिदेतत् ।।
। अथ प्रत्यभिज्ञाननिरूपणम् । अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्याविगोचरं सकल