________________
प्रमाणपरिच्छेदः ।
च्छति एवं परमशुभाध्यवसायला भादिदमपि पूर्वोत्पन्नं वर्धत इति । उत्पत्तिक्षेत्रापेक्षया क्रमेणाल्पीभवद्विषयं हीयमानम्, परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखावत् यथा अपनीतेन्धनाग्निज्वाला परिहीयते तथा इदमपीति । उत्पत्त्यनन्तरं निर्मूल'नश्वरं प्रतिपाति, जलतरङ्गवत्, यथा जलतरङ्ग उत्पन्नमात्र एव ५ निर्मूलं विलीयते तथा इदमपि । आ केवलप्राप्तेः आ मरणाद्वा अवतिष्ठमानम् अप्रतिपाति, वेदवत् यथा पुरुषवेदादिरापुरुषादिपर्यायं तिष्ठति तथा इदमपीति ।
.
| अथ मनःपर्यायज्ञाननिरूपणम् ।
मनोमात्र साक्षात्कारि मनःपर्यवज्ञानम् । मनःपर्यायानिदं १० साक्षात्परिच्छेत्तुमलम्, बाह्यानर्थान् पुनस्तदन्यथानुपपत्त्याऽनुमानेनैव परिच्छिनत्तीत्ति द्रष्टव्यम् । तद् द्विविधम्-ऋजुमतिविपुलमतिभेदात् । ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः । सामान्यशब्दोऽत्र विपुलमत्यपेक्षयाऽल्पविशेषपरः, अन्यथा सामान्यमात्रग्राहित्वे मनः पर्यायदर्शनप्रसङ्गात् । विपुला विशे- १५ ग्राहिणी मतिर्विपुलमतिः । तत्र ऋजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमया तु पर्यायशतोपेतं तत् परिच्छिद्यत इति । एते च द्वे ज्ञाने विकलविषयत्वाद्विकल प्रत्यक्षे परिभाष्येते ।
"
११
| अथ केवलज्ञाननिरूपणम् ।
निखिलद्रव्य पर्यायसाक्षात्कारि केवलज्ञानम् । अत एवैतत्सकलप्रत्यक्षम् । तच्चावरणक्षयस्य हेतोरैक्याद्भेदरहितम् । आवरणं चात्र कर्मैव, स्वविषयेऽप्रवृत्तिमतोऽस्मदादिज्ञानस्य सावरणत्वात्, असर्वविषयत्वे व्याप्तिज्ञानाभावप्रसङ्गात्, सावरणत्वाभावेऽस्पष्टत्वानुपपत्तेश्च । आवरणस्य च कर्मणो विरोधिना २५ सम्यग्दर्शनादिना विनाशात् सिध्यति कैवल्यम् ।
'योगजधर्मानुगृहीतमनोजन्यमेवेदमस्तु' इति केचित् तन