________________
जैनतर्कभाषा । क्षया नास्तित्वच क्रमिकप्रधानभावकल्पनास्पदम्भवति तदा क्रमिकप्रधानमावापनकथञ्चिदस्तित्वकथञ्चिन्नास्तित्वोभयप्रकारकपटाविशेष्यकबोधजनकवाक्यात्मा तृतीयो भङ्गः, तस्य निरुक्तबोधजनकवाक्यत्वं लक्षणम् , प्रथमभङ्गद्वितीयभगाभ्यां केवलकथञ्चिदस्तित्वप्रकारकबोधस्य केवलकथश्चिन्नास्तित्वप्रकारकबोधस्य जननं, तृतीयेन एकत्रद्वयमिति न्यायेन यथा चैत्रो दण्डो कुण्डली चेत्यत्र दण्डकुण्डलोभयप्रकारकचैत्रविशेष्यकबोध एक उपजायते तथाप्रकृतेऽपि परस्परविशेषणविशेष्यभावापन्नतया तु विधिनिषेधयोरत्र विवक्षैव नास्ति येन प्रथमद्वितीयमङ्गाभ्यामविशिष्टयोर्विधिनिषेधयोर्बोधोऽनेन तु परस्परविशेषणविशेष्यभावापन्नविधिनिषेधबोध इति वैलक्षण्यमभिधातुं शक्येत, तथाविवक्षायां तु विशेषणस्य गौणत्वं विशेष्यस्य प्राधान्यं विशिष्टनियतं भवेन्न तूभयप्राधान्यम् अभिमतन्तु क्रमिकोभयप्राधान्यम् , इदन्तु स्यादेवं कल्पनायां वस्तुनः प्रतिपर्यायं विधिनिषेधौ द्वावेव धर्मों, बोधस्तु प्रकारताभेदनिबन्धनः सप्तविध इति नजनका भङ्गास्सप्तेति, न चैतन्न्याय्यम् , प्रतिपर्यायं धर्माणां सप्तविधत्वेन सप्तविधसंशयजिज्ञासाप्रश्नमूल. कसप्तविधोत्तरवाक्यरूपभङ्गानामिष्टेः उक्ताभ्युपगमे तु तद्विरोधः । किन्तु "भागे सिंहो नरो भागे योऽशो भागद्वयात्मकः । तमभाग विभागेन नरसिंहं प्रचक्षते" इतिवचनान्नरसिंहात्मिकाऽखण्डव्यक्तिनरसिंहाभ्यां भिन्नाऽपि ताभ्यामेव विभिन्न भागरूपतया कल्पिताभ्यां निरूप्यमाणा नरसिंहबोधो भासते तथाऽस्तित्वनास्तित्व विलक्षणधर्मविशेषोऽस्ति त्वपर्यायमाश्रित्य घटादिधर्मिणि समस्ति स एव धर्मः क्रमिक प्रधानभावविवक्षितकथञ्चिदस्तित्वनास्तिभ्यां निरूप्यमाणस्तात्पर्यवशात्तृतीयभङ्गजबोधे भासते तादृशधर्मलक्षणविषयभेदत एवायद्वितीयभङ्गाभ्यां तञ्जन्यबोधाभ्याश्च भेदस्तृतीयभङ्गस्य तजन्यवोधस्य च, इयमेव नीतिश्च तुर्यादिभङ्गेष्वपीति॥ इति तृतीयभङ्गनिरुपणम् ॥
॥ अथ चतुर्थभङ्गनिरूपणम् ॥ चतुर्थभङ्गनिरूपयति । - पृ. २७ पं. २२ स्यादवक्तव्यमेवेति-आद्यास्त्रयः सकला अन्त्याश्चत्वारो विकलादेशा इत्युपगच्छद्भिस्सरिभिरगं भङ्गः तृतीयतया एतत्स्थाने च स्याद