SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १. प्रमारियः । सर्वाशेषधर्मप्रतिभासनमन्तरेण परिपूर्णार्थविवोधासम्भवात् , तदाश्रित्येवोच्यते य एकं जानाति स सर्व जानाति यः सर्व जानाति स एकंजानातीति एवं "एको भाव: सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावास्सर्वथा येन दृष्टा एको भावस्ततच्चतस्तेन दृष्टः" इत्यपि, तथा " स्याद्वादकेवलज्ञाने सकलार्थविमासने इति च एवञ्च द्वितीयभङ्गेऽपि गौणतया अस्तित्वादिपतिमासकत्वमस्ति परं प्राधान्येन निषेधविवक्षयैव स्यानास्त्येव सर्वमिति द्वितीयभङ्गः अस्य प्राधा. न्येन घटादिविशेष्यकनास्तित्वाद्यात्मकनिषेधधर्ममात्रप्रकारकबोधजनकवाक्यत्वं लक्षणं, प्रथमस्य तु प्राधान्येन घटादिविशेष्यकास्तित्वाद्यात्मकविधिधर्ममात्रप्रका. रकबोधजनकवाक्यत्वं, विधिनिषेधौ च स्यादर्थकथञ्चिदालिङ्गितावेव सत्र प्रविष्टौ । अत्र कथञ्चिदर्थः परद्रव्यक्षेत्रकालभावापेक्षयेति भावना तु पूर्ववदेव, अत्रासत्वं काल्पनिकमिति विषयाभावान्न द्वितीयभङ्गसम्भव इति बौद्धमतमाशङ्कय प्रतिक्षिपति । पृ. २७ पं. १९ न चेति-यथासत्त्वं स्वातन्त्र्येणानुयभूते तथाऽसचमपीति नासवस्यापि काल्पनिकत्वं, तस्य काल्पनिकत्वे वा विपक्षासवस्य फल्पनात्पक्षसच्चसपक्षसत्तैतद्रूपमेव हेतुरूपम्भवेदिति विपक्षासचरूपमादाय हेतोबैरूप्याभिधानं बौद्धस्य व्याहतं स्यादिति प्रतिक्षेपहेतुमुपन्यस्यति । पृ. २७ पं. १९ सत्त्ववदिति तस्य-असच्चस्य । पृ. २७ पं. २० अन्यथा-असत्त्वस्य काल्पनिकत्वाम्युपगमे ॥ इति द्वितीयभङ्गनिरूपणम् ॥ ॥ अथ तृतीयभङ्गनिरूपणम् ॥ तृतीयभङ्गनिरूपयति । पृ २७ पं. २१ स्यादस्त्येवेति-क्रमिकप्रधानभावेन विधिनिषेधोमयविवक्षया स्यादस्त्येव स्यानास्त्येव सर्वमिति तृतीयो भङ्ग इत्यर्थः, अयमस्य निष्कर्षः-यदा घटस्य वद्रव्यक्षेत्रकालभावापेक्ष्यास्तित्वं परद्रव्यक्षेत्रकालभावा. ૨૬
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy