________________
११८
जैनतर्कभाषा । पूर्वमनुभूतं यत्तीर्थकरबिम्बं स्मृतौ सत्यां तद्देशगमने तत्र तत्तीर्थकरमाप्तिर्भवतीत्यतो यथार्थप्रवृत्तिजनकत्वात्स्सरणं प्रमाणमेवेत्यर्थः, यथा च कस्यचित्प्रत्यक्षादेरयथार्थप्रवृत्तिजनकत्वेनाप्रामाण्येऽप्येतावता न तजातीयस्य सर्वस्य प्रत्यक्षादेरप्रामाण्यं तथैव कस्यचित्स्मरणस्य विसंवादकस्याप्रामाण्यमित्यपि बोध्यम् । ननु स घटोऽस्तीतिस्मृतिरुपजायमाना दृश्यते सा तद्देशकालवृत्तित्वरूपतत्ताविशिष्टघटे वर्तमानकालवृत्तित्वम्बोधयन्ती न प्रमाणं, स्मृतस्य घटस्य विशेष्यीभूतस्य वर्तमानकालवृत्तित्वेऽपि विशिष्टे तस्मिन् विशेषणीभूतायां वा तद्देशकालवत्तित्वरूपायां तत्तायां वर्तमानकालवृत्तित्वस्य बाधादिति बाधितार्थविषयकत्वस्याप्रामाण्यनिबन्धनस्य तत्र भावादिति चिन्तामणिकारानुयायिनो नव्यनैयायिकाः प्रत्यवतिष्ठन्ते ।
पृ. १२. पं. १५ अतीततत्तांशे...प्रमाणमिदमिति-स्मरणम् , यत्र विशेषणस्य सुखादेः विशेष्यकालवृत्तित्वं सुखीत्यादौ तत्र विशेषणे विशेष्यकालवृत्तित्वस्य भानेऽपि सर्वत्र विशेषणे विशेष्यकालवृत्तित्वभाने भानाभावाद्विशेषणेसर्वत्र विशेष्यकालनियमः परेषानियुक्तिकत्वानोपादेय इति तत्तांशे वर्तमानकालवृत्तित्वमविषयीकृत्यापि स घट इति स्मृतिर्भवन्ती न निरोद्धं शक्येति तस्या अवाधितार्थविषयकत्वात्प्रामाण्यं स्यादेवेति समाधत्ते ।। __ पृ. १२. पं. १६ नेति-वस्तुतः स घट इत्येव सरणं न तु स घटोऽस्तीति, वर्तमानकालवृत्तित्वं विशेष्यांशेऽपि स्मृति वगाहत एवेति कुतस्तस्या विशेषणांशे तदवगाहित्ववार्ताऽपीति । कुसुमाञ्जलौ चतुर्थस्तवके उदयनाचार्येणोक्तं ।
"अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृग् । यथार्थानुभवो मानमनपेक्षतयेष्यते॥ ॥१॥ इति तस्यायमर्थः।
अपूर्वग्-अनधिगतार्थाधिगन्तज्ञानं । अलक्षणं-प्रमाया लक्षणं न भवति, लक्षणं हि अव्यायतिव्याप्त्यसम्भवदोषरहितं सद्भवितुमर्हति, तत्र अव्याप्तिः -लक्ष्यैकदेशे लक्षणस्यागमनं, यथा गोः शाबलेयत्वं लक्षणं कृतं चेत्तस्य लक्ष्यैकदेशे बाहुलेये गवि असत्वेनाव्याप्तिदोषः। अलक्ष्ये लक्षणगमनमतिव्याप्तिः, यथा गोः शृङ्गित्वं, तस्य अलक्ष्ये महिषे सत्त्वेनातिव्याप्तिदोषः; लक्ष्यमात्रे लक्षणागमनमसम्भवः यथा गोरकशफत्वम्, गोमात्रस्य खुरद्वयवत्वे न एकखुर