________________
1. प्रमाणपरिच्छेदः।
११७
परोक्षप्रमाणं विभजते ।
पृ. १२. पं. १२ तच्चेति-परोक्षप्रमाणश्चेत्यर्थः । पञ्चसु परोक्षप्रकारेषु प्रथमोद्दिष्टं स्मृतिप्रमाणं निरूपयति ।
पृ. १२. पं. १३ अनुभवेति-अनुभवमात्रजन्यं ज्ञानमिति लक्षणनिर्देशः, स्मरणमितिलक्ष्यनिर्देशः । यद्वस्तुनः प्रथमत एव ज्ञानं नदनुभवः प्रत्यक्षं, तर्कः, अनुमितिः शाबोधश्च, ततः पूर्वकालीनादुक्तस्वभावादनुभवादयं घटइत्याद्याकाराघदुत्तरकाले स घट इत्याद्याकारकं ज्ञानमनुभूतपदार्थविषयकं प्रादुर्भवति तत्रानुभव एव करणं अनुभवजन्या वासना च भावनासंस्कारापरनामधेया तत्रानुभवस्मरणमध्यकालवर्तिनी अनुभवस्य व्यापारतया स्मरणे कारणमिति करणतयाऽनुभवमात्रजन्यं ज्ञानं भवति स्मरणमितिलक्षणसमन्वयः। उक्तलक्षणलक्षितं स्मरणमुदाहरति ।
पृ. १२. पं. १४ यथेति-पूर्व तीर्थकर्तुर्जिनस्य प्रतिमाऽनुभूता कालान्तरे कुतश्चित्कारेणात्तद्विषयिण्या वासनाया तत्-तीर्थकरबिम्बमिति ज्ञानम्भवति तज्ज्ञानं स्मरणमित्यर्थः । अनुभूतमात्रार्थविषयकत्वादगृहीतग्राहित्वाभावेन स्मृतेर्न प्रामाण्यमितिमीमांसकादयः, विकल्परूपत्वान्न प्रामाण्यमिति वौद्धाः, यथार्थानुभवस्यैवान्यानपेक्षस्य प्रमात्वं स्मृतेस्तु अनुभवत्वाभावात् च प्रामाण्येऽनुभवप्रामाण्यापेक्षणात्स्वातन्त्र्याभावेन न प्रामाण्यमितिगौतमीयाः वैशेषिकाश्च, स्याद्वादिनो जैनास्तु स्मृतेः प्रामाण्यमभ्युपगच्छन्तस्तन्मतमाशङ्कय प्रतिक्षिपन्ति । . पृ. १२. पं. १४ न चेदमप्रमाणमिति-इदं स्मरणमप्रमाणमिति नाशङ्कनीयमित्यर्थः । प्रामाण्येऽबाधितार्थविषयकत्वमेव योजकं, नागृहीतग्राहित्वानुभवत्वादिकमपि तच्चाविसंवादकत्वात्स्मरणेऽप्यस्तीति प्रत्यक्षादिवत्तदपि प्रमाणमेवेत्याह।
पृ. १२. पं. १५ प्रत्यक्षादिवदिति-आदिपदादनुमानादिपरिग्रहः ।
पृ. १२. पं. १५ अविसंवादकत्वात्-यया प्रवृत्त्या अर्थप्राप्तिनं भवति सा प्रवृत्तिविंसंवादिनी, तस्या जनकं भ्रमात्मकं ज्ञानं विसंवादकं, तादृशं यन्न भवति अर्थात्सत्यप्रवृत्तिजनकं ज्ञानमविसंवादकं तच्चादित्यर्थः, यसिन्मन्दिरे