________________
पञ्चास्तिकायसमयसारस्य टीका।
११
भावप्राणाः, पुद्गलसामान्यान्वयिनो द्रव्यप्राणाः, तेषामुभयेषामपि त्रिष्वपि कालेष्वनवच्छिन्नसंतानत्वेन धारणात्संसारिणो जीवत्वं । मुक्तस्य तु केवलानामेव भावप्राणानां धारणात्तदवसेयमिति ॥
[३१-३२] अत्र जीवानां स्वाभाविकं प्रमाणं मुक्तामुक्तविभागश्चोक्तः । जीवा ह्यविभागैकद्रव्यत्वाल्लोकप्रमाणैकप्रदेशाः । अगुरुलघवो गुणास्तु तेषामगुरुलघुत्वाभिधानस्य खरूपप्रतिष्ठत्वनिबन्धनस्य स्वभावस्थाविभागपरिच्छेदाः प्रतिसमयसंभवत्षट्स्थानपतितवृद्धिहानयोऽनन्ताः । प्रदेशास्तु अविभागपरमाणुपरिच्छिन्नसूक्ष्मांशरूपा असंख्येयाः। एवंविधेषु तेषु केचित्कथंचिल्लोकपूरणावस्थाप्रकारेण सर्वलोकव्यापिनः । केचित्तु तदव्यापिनः इति । अथ ये तेषु मिथ्यादर्शनकषाययोगैरनादिसन्ततिप्रवृत्तैर्युक्तास्ते संसारिणो ये विमुक्तास्ते सिद्धास्ते च प्रत्येकं बहव इति ॥
[३३] एष देहमात्रत्वदृष्टान्तोपन्यासः। यथैव हि पद्मरागरत्नं क्षीरे क्षिप्तं स्वतो व्यतिरिक्तप्रभास्कन्धेन तद् व्याप्नोति क्षीरं । तथैव हि जीवः अनादिकषायमलीमसत्वमूले शरीरेऽवतिष्ठमानः स्वप्रदेशैस्तदभिव्याप्नोति शरीरम् । यथैव च तत्र क्षीरेऽग्निसंयोगादुद्बलमाने तस्स पद्मरागरत्नस्य प्रभास्कन्ध उद्बलते पुनर्निविशमाने निविशते च । तथैव च तत्र शरीरे विशिष्टाऽऽहारादिवशादुत्सर्पति तस्य जीवस्य प्रदेशाः उत्सर्पन्ति पुनरपसर्पति अपसर्पन्ति च । यथैव च तत्पद्मरागरत्नमन्यत्र भूतक्षीरे क्षिप्तं स्वप्रभास्कन्धविस्तारेण तद् व्यामोति प्रभूतक्षीरम् । तथैव हि जीवोऽन्यत्र महति शरीरेऽवतिष्ठमानः स्वप्रदेशविस्तारेण तद् व्यामोति महच्छरीरं । यथैव च तत्पद्मरागरत्नमन्यत्र स्तोकक्षीरे निक्षिप्तं स्वप्रभास्कन्धोपसंहारेण तद् व्यामोति स्तोकक्षीरं । तथैव च जीवोऽन्यत्राणुशरीरे ऽवतिष्ठमानः स्वप्रदेशोपसंहारेण तद् व्याप्नोत्यणुशरीरमिति ॥
[३४] अत्र जीवस्य देहादेहान्तरेऽस्तित्वं, देहात्पृथग्भूतत्वं, देहान्तरसंचरणकारणं चोपन्यस्तम् । आत्मा हि संसारावस्थायां क्रमवर्तिन्यनवच्छिन्नशरीरसंताने यथैकस्मिन् शरीरे वृत्तः, तथा क्रमेणान्येध्वपि शरीरेषु वर्तत इति तस्य सर्वत्रास्तित्वम् । न चैकस्मिन् शरीरे नीरक्षीरमिवैक्येन स्थितोऽपि भिन्नस्वभावत्वात्तेन सहैक इति । तस्य देहात्पृथग्भूतत्वं अनादिबन्धंनोपाधिविवर्तितविविधाऽध्यवसायविशिष्टत्वात्तन्मूलकर्मजालमलीमसत्वाच्च चेष्टमानस्याऽऽत्मनस्तथाविधाऽध्यवसायकर्मनिवर्तितेतरशरीरप्रवेशो भवतीति तेस्य देहान्तरसंचरणकारणोपन्यास इति ॥
[३५] सिद्धानां जीवत्वदेहमात्रत्वव्यवस्थेयम् । सिद्धानां हि द्रव्यप्राणधारणात्मको मुख्यत्वेन जीवस्वभावो नास्ति । न च जीवस्वभावस्य सर्वथा भावोऽस्ति भावप्राणधारणात्मकस जीवस्वभावस्य मुख्यस्वेन सद्भावात् । नच तेषां शरीरेण सह नीरक्षीरयोरिवैक्येन वृत्तिः । यतस्ते तसंपर्कहेतुभूतकषाययोगविप्रयोगादतीतानन्तरशरीरमात्रावगाहपरिणतत्वेऽप्यत्यन्तभिन्नदेहाः । वाचां गोचरमतीतश्च तन्महिमा। यतस्ते लौकिकप्राणधारणमन्तरेण शरीरसंबन्धमन्तरेण च परिप्राप्तनिरुपाधिस्वरूपाः सततं प्रतैपन्तीति ॥
१ अशुद्धनिश्चयेन भावरूपाणां, उपचरितासद्भूतव्यवहारेण द्रव्यरूपाणाम्. २ जीवानाम्. ३ अभिन्नाः. ४ प्रचुरदुग्धे.. ५ अन्यस्मिन्. ६ एकखरूपत्वेन. ७ अनादि च तदेव बंधनं च तस्योपाधिः तेन विवर्तिताः निष्पादिताः ते च ते विविधा नानाप्रकाराः अध्यवसाया रागद्वेषमोहपरिणतिरूपाश्च तैर्विशिष्टत्वात्संयुक्तत्वात्. ८ रागद्वेषमोहरूपेण विक्रियां कुर्वाणस्य. ९ जीवस्य. १० द्रव्यप्राणाः इन्द्रियबलाः पुरूच्छासलक्षणात्मकाः ११ भावप्राणस्य सत्तासुखबोधचैतन्यलक्षणस्य. १२ तेषां सिद्धानां. १३ तस्य शरीरस्य संपर्कः संयोगः तत्संपकहेतुभूताश्च ते कषाययोगाश्च तेषां विप्रयोगो विनाशस्तस्मात्. १४ अतिशयेन त्यक्तदेहाः. १५ तेषां सिद्धानां महिमा तन्महिमा. १६ प्रकाशयन्ति.