SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पञ्चास्तिकायसमयसारस्य टीका। ११ भावप्राणाः, पुद्गलसामान्यान्वयिनो द्रव्यप्राणाः, तेषामुभयेषामपि त्रिष्वपि कालेष्वनवच्छिन्नसंतानत्वेन धारणात्संसारिणो जीवत्वं । मुक्तस्य तु केवलानामेव भावप्राणानां धारणात्तदवसेयमिति ॥ [३१-३२] अत्र जीवानां स्वाभाविकं प्रमाणं मुक्तामुक्तविभागश्चोक्तः । जीवा ह्यविभागैकद्रव्यत्वाल्लोकप्रमाणैकप्रदेशाः । अगुरुलघवो गुणास्तु तेषामगुरुलघुत्वाभिधानस्य खरूपप्रतिष्ठत्वनिबन्धनस्य स्वभावस्थाविभागपरिच्छेदाः प्रतिसमयसंभवत्षट्स्थानपतितवृद्धिहानयोऽनन्ताः । प्रदेशास्तु अविभागपरमाणुपरिच्छिन्नसूक्ष्मांशरूपा असंख्येयाः। एवंविधेषु तेषु केचित्कथंचिल्लोकपूरणावस्थाप्रकारेण सर्वलोकव्यापिनः । केचित्तु तदव्यापिनः इति । अथ ये तेषु मिथ्यादर्शनकषाययोगैरनादिसन्ततिप्रवृत्तैर्युक्तास्ते संसारिणो ये विमुक्तास्ते सिद्धास्ते च प्रत्येकं बहव इति ॥ [३३] एष देहमात्रत्वदृष्टान्तोपन्यासः। यथैव हि पद्मरागरत्नं क्षीरे क्षिप्तं स्वतो व्यतिरिक्तप्रभास्कन्धेन तद् व्याप्नोति क्षीरं । तथैव हि जीवः अनादिकषायमलीमसत्वमूले शरीरेऽवतिष्ठमानः स्वप्रदेशैस्तदभिव्याप्नोति शरीरम् । यथैव च तत्र क्षीरेऽग्निसंयोगादुद्बलमाने तस्स पद्मरागरत्नस्य प्रभास्कन्ध उद्बलते पुनर्निविशमाने निविशते च । तथैव च तत्र शरीरे विशिष्टाऽऽहारादिवशादुत्सर्पति तस्य जीवस्य प्रदेशाः उत्सर्पन्ति पुनरपसर्पति अपसर्पन्ति च । यथैव च तत्पद्मरागरत्नमन्यत्र भूतक्षीरे क्षिप्तं स्वप्रभास्कन्धविस्तारेण तद् व्यामोति प्रभूतक्षीरम् । तथैव हि जीवोऽन्यत्र महति शरीरेऽवतिष्ठमानः स्वप्रदेशविस्तारेण तद् व्यामोति महच्छरीरं । यथैव च तत्पद्मरागरत्नमन्यत्र स्तोकक्षीरे निक्षिप्तं स्वप्रभास्कन्धोपसंहारेण तद् व्यामोति स्तोकक्षीरं । तथैव च जीवोऽन्यत्राणुशरीरे ऽवतिष्ठमानः स्वप्रदेशोपसंहारेण तद् व्याप्नोत्यणुशरीरमिति ॥ [३४] अत्र जीवस्य देहादेहान्तरेऽस्तित्वं, देहात्पृथग्भूतत्वं, देहान्तरसंचरणकारणं चोपन्यस्तम् । आत्मा हि संसारावस्थायां क्रमवर्तिन्यनवच्छिन्नशरीरसंताने यथैकस्मिन् शरीरे वृत्तः, तथा क्रमेणान्येध्वपि शरीरेषु वर्तत इति तस्य सर्वत्रास्तित्वम् । न चैकस्मिन् शरीरे नीरक्षीरमिवैक्येन स्थितोऽपि भिन्नस्वभावत्वात्तेन सहैक इति । तस्य देहात्पृथग्भूतत्वं अनादिबन्धंनोपाधिविवर्तितविविधाऽध्यवसायविशिष्टत्वात्तन्मूलकर्मजालमलीमसत्वाच्च चेष्टमानस्याऽऽत्मनस्तथाविधाऽध्यवसायकर्मनिवर्तितेतरशरीरप्रवेशो भवतीति तेस्य देहान्तरसंचरणकारणोपन्यास इति ॥ [३५] सिद्धानां जीवत्वदेहमात्रत्वव्यवस्थेयम् । सिद्धानां हि द्रव्यप्राणधारणात्मको मुख्यत्वेन जीवस्वभावो नास्ति । न च जीवस्वभावस्य सर्वथा भावोऽस्ति भावप्राणधारणात्मकस जीवस्वभावस्य मुख्यस्वेन सद्भावात् । नच तेषां शरीरेण सह नीरक्षीरयोरिवैक्येन वृत्तिः । यतस्ते तसंपर्कहेतुभूतकषाययोगविप्रयोगादतीतानन्तरशरीरमात्रावगाहपरिणतत्वेऽप्यत्यन्तभिन्नदेहाः । वाचां गोचरमतीतश्च तन्महिमा। यतस्ते लौकिकप्राणधारणमन्तरेण शरीरसंबन्धमन्तरेण च परिप्राप्तनिरुपाधिस्वरूपाः सततं प्रतैपन्तीति ॥ १ अशुद्धनिश्चयेन भावरूपाणां, उपचरितासद्भूतव्यवहारेण द्रव्यरूपाणाम्. २ जीवानाम्. ३ अभिन्नाः. ४ प्रचुरदुग्धे.. ५ अन्यस्मिन्. ६ एकखरूपत्वेन. ७ अनादि च तदेव बंधनं च तस्योपाधिः तेन विवर्तिताः निष्पादिताः ते च ते विविधा नानाप्रकाराः अध्यवसाया रागद्वेषमोहपरिणतिरूपाश्च तैर्विशिष्टत्वात्संयुक्तत्वात्. ८ रागद्वेषमोहरूपेण विक्रियां कुर्वाणस्य. ९ जीवस्य. १० द्रव्यप्राणाः इन्द्रियबलाः पुरूच्छासलक्षणात्मकाः ११ भावप्राणस्य सत्तासुखबोधचैतन्यलक्षणस्य. १२ तेषां सिद्धानां. १३ तस्य शरीरस्य संपर्कः संयोगः तत्संपकहेतुभूताश्च ते कषाययोगाश्च तेषां विप्रयोगो विनाशस्तस्मात्. १४ अतिशयेन त्यक्तदेहाः. १५ तेषां सिद्धानां महिमा तन्महिमा. १६ प्रकाशयन्ति.
SR No.022407
Book TitlePanchastikay Samaysar
Original Sutra AuthorKundkundacharya
AuthorPannalal Bakliwal
PublisherParamshrut Prabhavak Mandal
Publication Year1905
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy