SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् व्यवहारेण शुभाशुमकर्मसंपादितेष्टानिष्टविषयाणां भोक्तृत्वानोक्तो । निश्चयेन लोकमात्रोऽपि विशिष्टावगाहपरिणामशक्तियुक्तत्वात् नामकर्मनिवृत्तमणुमहच्च शरीरमधितिष्ठन् व्यवहारेण देहमीत्रो व्यवहारण कर्मभिः सहैकत्वपरिणामान्मूर्तोऽपि निश्चयेन नीरूपस्वभावत्वान्नहि मूर्तः । निश्चयेन पुद्गलपरिणामानुरूपचैतन्यपरिणामात्माभिव्यवहारेण चैतन्यपरिणामानुरूपपुद्गलपरिणामात्मभिः कर्मभिः संयुक्तत्वात्कर्मसंयुक्त इति ॥ [२८] अत्र मुक्तावस्थस्सात्मनो निरुपाधि स्वरूपमुक्तम् । आत्मा हि परद्रव्यत्वात्कर्मरजसा साकेल्येन यस्मिन्नेव क्षणे मुच्यते तस्मिन्नेवोर्ध्वगमनस्वभावत्वाल्लोकान्तमधिगम्य परतो गतिहेतोरभावादवस्थितः केवलज्ञानदर्शनाभ्यां स्वरूपभूतत्वादमुक्तोऽनन्तमतीन्द्रियं सुखमनुभवति ।। मुक्तस्य चास्य भावप्राणधारणलक्षणं जीवत्वं, चिद्रूपलक्षणं चेतयितृत्वं, चित्परिणामलक्षणं उपयोगः, निवर्तितसमस्ताधिकारशक्तिमात्रं प्रभुत्वं, समस्तवस्त्वसाधारणस्वरूपनिर्वर्तनमात्रं कर्तृत्वं, स्वरूपभूतस्वातन्त्र्यलक्षणसुखोपलम्भरूपं भोक्तृत्वं, अतीतानन्तरशरीरपरिमाणावगाहपरिणामरूपं देहमात्रत्वं, उपाधिसंबन्धविविक्तमात्यन्तिकममूर्तत्वं । कर्मसंयुक्तत्वं तु द्रव्यभावकर्मविप्रमोक्षान्न भवत्येव । द्रव्यकर्माणि हि पुद्गलस्कन्धाभावकाणि तु चिद्विवर्ताः । "विवर्तते हि चिच्छक्तिरनादिज्ञानावरणादिकर्मसंपर्कणितप्रचारा परिच्छेद्येस्स विश्वस्यैकदेशेषु क्रमेण व्याप्रियमाणा । यदा तु ज्ञानावरणादिकर्मसंपर्कः प्रणश्यति तदा परिच्छेद्यस्य विश्वस्य • सर्वदेशेषु युगपद्यापृती कथंचित्कौटस्थ्यमवाप्य विषयान्तरमनामुवन्ती न विवर्तते । स खल्वेष निश्चितः सर्वज्ञसर्वदर्शित्वोपलम्भः । अयमेव द्रव्यकर्मनिबन्धनभूतानां भावकर्मणां कर्तृत्वोच्छेदः । अयमेव च विकारपूर्वकानुभवाभावादौपाधिकसुखदुःखपरिणामानां भोक्तृत्वोच्छेदः । इदमेव चानादिविवर्तखेदविच्छित्तिसुस्थितानन्तचैतन्यस्यात्मनः स्वतन्त्रस्वरूपानुभूतिलक्षणसुखस्य भोक्तृत्वमिति ॥ [ २९ ] इदं सिद्धस्य निरुपाधिज्ञानदर्शनसुखसमर्थनम् । आत्मा हि ज्ञानदर्शनसुखस्वभावः संसारावस्थायामनादिकर्मक्लेशसंकोचितात्मशक्तिः परद्रव्यसंपर्केण क्रमेण किंचित्किंचिज्जानाति पश्यति परप्रत्ययं मूर्तसंबन्धं सव्याबाधं सान्तं सुखमनुभवति च । यदा त्वस्य कर्मक्लेशाः सामस्त्येन प्रणश्यन्ति, तदाऽनर्गलाऽसंकुचितात्मशक्तिरसहायः स्वयमेव युगपत्समग्रं जानाति, पश्यति, स्वप्रत्ययममूर्तसंबन्धमव्याबाधमनन्तसुखमनुभवति च । ततः सिद्धस्य समस्तं स्वयमेव जानतः, पश्यतः, सुखमनुभवतश्च, स्वं न परेण प्रयोजनमिति ॥ [३०] जीवत्वगुणव्याख्येयम् । इन्द्रियबलाः पुरूच्छ्रासलक्षणा हि प्राणाः। तेथें चित्सामान्यान्वयिनो १ शुद्धनिश्चयेन शुद्धात्मोत्थवीतरागपरमानन्दरूपसुखस्य तथैवाशुद्धनिश्चयेनेन्द्रियजनितसुखदुःखानां तथाचोपचरितासद्भूतव्यवहारेण सुखदुःखसाधकेष्टानिष्टाशनपानादिबहिरङ्गविषयाणां च भोक्तृत्वात् भोक्ता भवति. २ निश्चयेन लोकाकाशप्रमितासंख्येयप्रदेशप्रमितोऽपि व्यवहारेण शरीरनामकम्र्मोदयजनिताऽणुमहच्छरीरप्रमाणत्वात्स्वदेहमात्रो भवति. ३ असद्भूतव्यवहारेणानादिकर्मबन्धसहितत्वान्मूर्तोऽपि शुद्धनिश्चयेन वर्णादिरहितत्वादमूर्तोऽपि भवति. ४ शुद्धनिश्चयेन कर्मरहितोऽप्यनुपचरितासद्भूतव्यवहारेण द्रव्यकर्मसंयुक्तत्वात् तथैवाशुद्धनिश्चयेन रागादिरूपभावकर्मसंयुक्तो भवति. ५ द्रव्यभावरूपेण. ६ समये. ७ सत्तासुखबोधचैतन्यलक्षणं. ८ रचित- ९ विस्तार-. १० पर्यायाः. ११ व्याघुट्टनं करोति. १२ संकोचित-. १३ ज्ञेयस्य. १४ चिच्छक्तिः. १५ निश्चलत्वं प्राप्य. १६ ज्ञेयरूपं परद्रव्यं अनाप्नुवन्ती. १७ पराधीनं वा पराश्रितं सुखं. १८ आत्मनः. १९ खात्मोत्थं सुखम्. २० प्राणेषु.
SR No.022407
Book TitlePanchastikay Samaysar
Original Sutra AuthorKundkundacharya
AuthorPannalal Bakliwal
PublisherParamshrut Prabhavak Mandal
Publication Year1905
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy