SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पञ्चास्तिकायसमयसारस्य टीका । सद्भावे दृष्टः । गतिस्थित्यवगाहपरिणामवत् । यस्तु सहकारिकारणं स कालस्तत्परिणामान्यथानुपपत्तिगम्यमानत्वादनुक्तोऽपि निश्चयकालोऽस्तीति निश्चीयते । यस्तु निश्चयकालपर्यायरूपो व्यवहारकालः स जीवपुद्गलपरिणामेनाभिव्यज्यमानत्वात्तदोयत्त एवाभिगम्यत एवेति ॥ [२४-२५ ] अत्र व्यवहारकालस्य कथंचित्परायत्तत्वं द्योतितम् । परमाणुप्रचलनायत्तः समयः, नयनपुटघटनायत्तो निमिषः, तत्संख्याविशेषतः काष्ठा केला नाडी च। गगनमणिगमनायत्तो दिवास्त्रः । तत्संख्याविशेषतः मासः, ऋतुः, अयनं, संवत्सरः इति । एवंविधो हि व्यवहारकालः केवलकालपर्यायमात्रत्वेनावधारयितुमशक्यत्वात् परायत्त इत्युपमीयत इति ॥ [२६] अत्र व्यवहारकालस्य कथंचित् परायत्तत्वे सदुपपत्तिरुक्ता । इह हि व्यवहारकाले निमिपसमयादौ अस्ति तावत् चिर इति क्षिप्र इति संप्रत्ययः । स खलु दीर्घह्रस्वकालनिबन्धनं प्रमाणमन्तरेण न संभाव्यते । तदपि प्रमाणं पुद्गलद्रव्यपरिणाममन्तरेण नावधार्यते । ततः परिणामद्योत्यमानत्वायवहारकालो निश्चयेनानन्याश्रितोऽपि प्रतीत्यभाव इत्यभिधीयते । तदत्रास्तिकायसामान्यप्ररूपणायामस्तिकायत्वाभावात्साक्षादनुपन्यस्यमानोऽपि जीवपुद्गलपरिणामान्यथानुपपत्त्या निश्चयरूपस्तत्परिणामायत्ततया व्यवहाररूपः कालोऽस्तिकायपञ्चकवल्लोकरूपेण परिणत इति खरतरदृष्टयाभ्युपगम्यत इति ॥ इति समयव्याख्यायामन्तीति-षड्व्व्य-पञ्चास्तिकायसामान्यव्याख्यानरूपः पीठबन्धः समाप्तः ॥ अथामीषामेव विशेषव्याख्यानम् । तत्र तावज्जीवद्रव्यास्तिकायव्याख्यानं । भट्टमतानुसारिशिष्यं प्रति सर्वज्ञसिद्धिः । [ २७ ] अत्र संसारावस्थस्याऽऽत्मनः सोपाधि निरुपाधि च स्वरूपमुक्तं । आत्मा हि निश्चयेन भावप्राणधारणाजीव । व्यवहारेण द्रव्यप्राणधारणाजीवः । निश्चयेन चिदात्मकत्वाद् व्यवहारेण चिच्छक्तियुक्तत्वाञ्चेतयितो । निश्चयेनापृथग्भूतेन व्यवहारेण पृथग्भूतेन चैतन्यपरिणामलक्षणेनोपयोगेनोपलक्षितत्वादुपयोगविशेषितः । निश्चयेन भावकर्मणां व्यवहारेण द्रव्यकर्मणामास्रवणबन्धनसंवरणनिर्जरणमोक्षणेषु स्वयमीशैत्वात्प्रभुः । निश्चयेन पौगलिककर्मनिमित्तात्मपरिणामानां व्यवहारेणात्मपरिणामनिमित्तपौद्गलिककर्मणां कर्तृत्वात्कर्ता । निश्चयेन शुभाशुभकर्मनिमित्तसुखदुःखपरिणामानां १ अस्तित्वे सति. २ प्रकटीक्रियमाणत्वात्. ३ जीवपुद्गलपरिणामाधीन एव गम्यते. ४ पञ्चदशनिमिषैः काष्ठा. ५ विंशतिकाष्ठाभिः कला. ६ साधिकविंशतिकलाभिः घटिका. ७ त्रिंशन्मुहूतैरहोरात्रः: ८ पञ्चास्तिकायानां. ९ सत्तासुखबोधचैतन्यात्. १० आत्मा हि शुद्धनिश्चयेन सुखसत्ताचैतन्यबोधादिशुद्धप्राणैर्जीवति, तथाचाशुद्धनिश्चयेन क्षायोपशमिकौदयिकभावप्राणैजीवति । तथैवानुपचरितासद्भूतव्यवहारेण द्रव्यप्राणैश्च यथासंभवं जीवति जीविष्यति जीवितपूर्वश्चेति जीवो भवति. ११ शुद्धनिश्चयेन शुद्धज्ञानचेतनया तथैवाशुद्धनिश्चयेन कर्मकर्मफलरूपया वाऽशुद्धचेतनया युक्तत्वाचेतयिता भवति. १२ निश्चयेन केवलज्ञानदर्शनरूपशुद्धोपयोगेन तथैवाशुद्धनिश्चयेन मतिज्ञानादिक्षायोपशमिकाशुद्धोपयोगेन युक्तवादुपयोगविशेषितो भवति. १३ समर्थत्वात्. १४ शुद्धनिश्चयेन शुद्धभावानां परिणामानां तथैवाशुद्धनिश्चयेन पौद्गलिककर्मनिमित्तात्परिणामानां रागद्वेषमोहानां कर्तृत्वात् कर्ता. १५ निश्चयेन मोक्षमोक्षकारणरूपशुद्धपरिणमनसमर्थत्वात्तथैवाशुद्धनिश्चयेन संसारसंसारकारणरूपाशुद्धपरिणमनसमर्थत्वात् प्रभुर्भवति । भावकर्मरूपरागादिभावानां तथाचानुपचरितासद्भूतव्यवहारेण द्रव्यकर्मणो धर्मादीनां कर्तृत्वात् कर्ता भवति.
SR No.022407
Book TitlePanchastikay Samaysar
Original Sutra AuthorKundkundacharya
AuthorPannalal Bakliwal
PublisherParamshrut Prabhavak Mandal
Publication Year1905
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy