________________
रायचन्द्रजैनशास्त्रमालायाम् निवृत्तेषु जीवस्य देवादिपर्यायेष्वेकॅस्मिन् स्वकारणनिवृत्तौ निर्वृत्तेऽभूतपूर्व एव चान्यस्मिन्नुत्पन्ने नौसदुत्पत्तिः । तथा दीर्घकालान्वयिनि ज्ञानावरणादिकर्मसामान्योदयनिर्वृत्तिसंसारित्वपर्याये भव्यस्य स्वकारणनिवृत्तौ निवृत्त समुत्पन्ने चाभूतपूर्व सिद्धत्वपर्याये नासदुत्पत्तिरिति । किंच यथा द्राधीयसि वेणुदण्डे व्यवहिताव्यवहितविचित्रकिर्मीरताखचिताधस्तनार्द्धभागे एकान्तव्यवहितसुविशुद्धोर्वार्द्धभागेऽवेतारिता दृष्टिः समन्ततो विचित्रचित्रकिम्मीरताव्याप्तिं पश्यन्ती समर्नुमिनोति तस्य सर्वत्रीविशुद्धत्वम् । तथा क्वचिदपि जीवद्रव्ये व्यवहिताव्यवहितज्ञानावरणादिकर्मकिरिताखचितबहुत
राधस्तनार्द्धभागे एकान्तव्यवहितसुविशुद्धबहुतरोच॑भागेऽवतारिता बुद्धिः समन्ततो ज्ञानावरणादिकमकिरिताव्याप्तिं व्यवस्य॑न्ती समनुमिनोति तस्य सर्वत्रॉविशुद्धत्वम् । यथा च तत्र वेणुदण्डे व्याप्तिज्ञानाभासनिबन्धनविचित्रकिरितान्वयः । तथा च क्वचिजीवद्रव्ये ज्ञानावरणादिकर्मकिमीरतान्वयः । यथैव च तत्र वेणुदण्डे विचित्रचित्रकिर्भीरताभावात्सुविशुद्धत्वं । तथैव च क्वचिज्जीवद्रव्ये ज्ञानावरणादिकर्मकिर्मीरतान्वयाभावादाप्तागमसम्यगनुमानातीन्द्रियज्ञानपरिच्छिन्नात्सिद्धत्वमिति ॥
[२१] जीवस्योत्पादव्ययसदुच्छेदासदुत्पादकर्तृत्वोपपत्त्युपसंहीरोऽयं । द्रव्यं हि सर्वदाऽविनष्टानुत्पन्नमानातं । ततो जीवद्रव्यस्य द्रव्यरूपेण नित्यत्वमुपन्यस्तं । तस्यैव देवादिपर्यायरूपेण प्रादुर्भवतो भौवकर्तृत्वमुक्तं । तस्यैव च मनुष्यादिपर्यायरूपेण व्ययतो भावकर्तृत्वमाख्यातं । तस्यैव च सतो देवादिपर्यायस्योच्छेदमारभमाणस्य भावाभावकर्तृत्वमुपपादितं। तस्यैव चासतः पुनर्मनुष्यादिपर्यायस्योत्पादमारभमाणस्याभावभावकर्तृत्वमभिहितं । सर्वमिदमनवयं द्रव्यपर्यायाणामन्यतरगुणमुख्यत्वेन व्याख्यानात् । तथा हि यदा जीवः पर्यायेंगुणत्वेन द्रव्यमुख्यत्वेन विवक्ष्यते तदा नोत्पद्यते न विनश्यति न च क्रमवृत्त्या वर्तमानत्वात् सत्पर्य्यायजातमुच्छिनत्ति नासदुत्पादयति । यदा तु द्रव्यगुणत्वेन पर्य्यायमुख्यत्वेन विवश्यते तदा प्रादुर्भवति विनश्यति सत्पर्य्यायजातमतिवाहितस्वकालअच्छिनत्ति असदुपस्थित स्वकालमुत्पादयति चेति । स खल्वयं प्रसादोऽनेकान्तवादस्य यदीदृशोऽपि विरोधो न विरोधः । इति षड्व्व्य सामान्यप्ररूपणा ॥
[२२] अत्र सामान्येनोक्तलक्षणानां षण्णां द्रव्याणां मध्यात् पञ्चानामस्तिकायत्वम् व्यवस्थापितम् । अकृतत्वात् अस्तित्वमयत्वात् विचित्रात्मपरिणतिरूपस्य लोकस्य कारणत्वाचाभ्युपगम्यमानेषु षट्सु द्रव्येषु जीवपुद्गलाकाशधर्माधर्माः प्रदेशप्रचयात्मकत्वात् पञ्चास्तिकायाः। न खलु कॉलस्तदभावादस्तिकाय इति सामर्थ्यादेवसीयत इति ॥
[२३] अत्रास्तिकायत्वेनानुक्तस्यापि कालस्यार्थापन्नत्वं द्योतितं । इह हि जीवानां पुद्गलानां च सत्तास्वभावत्वादस्ति प्रतिक्षणमुत्पादव्ययध्रौव्यैकवृत्तिरूपः परिणामः। स खलु सहकारिकारण
१ निष्पन्नेषु. २ पर्य्याये. ३ अविद्यमानोत्पत्तिर्न. ४ बहुकालानुवर्तिनि. ५ अतिक्रान्ते. ६ विनाशं गते सवि. ७ पूर्वमनुत्पन्ने. ८ आच्छादितानाच्छादितः. ९ आरोपिता. १० अनुमानं करोति संकल्पयति प्रमाणयति वा. ११ वेणुदण्डस्य. १२ सर्वस्मिन्नू/धोभागे. १३ प्रलिप्तत्वम्. १४ चिन्तयन्ती. १५ अनुमान करोति. १६ तस्य जीवस्य. १७ सर्वस्मिन् जीवद्रव्यज्ञानावरणादित्वम्. १८ चित्ररचनासंतान:. १९ पर्यायाभावान्वयः इति पाठान्तरम्. २० अभिप्रायः. २१ तस्य जीवस्य. २२ पर्यायोत्पादकत्वमुक्तम्. २३ अविद्यमानस्य. २४ गौणत्वेन. २५ उच्छेदयति. २६ असद्रूपेणावस्थितम्. २७ कालः खल्वस्तिकाय इति बलात्कारेणाङ्गीक्रियते न व्यवह्रियते इत्यर्थः. २८ प्रदेशप्रचयात्मकस्याभावात् कायत्वाभावात्. २९ निश्चीयते. ३० स परिणामः.