SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् - [३६ ] सिद्धस्य कार्यकारणभावनिरासोऽयम् । यथा संसारी जीवो भावकर्मरूपयाऽऽत्मपरिणामसंतत्या द्रव्यकर्मरूपया च पुद्गलपरिणामसंतत्या कारणभूतया तेन तेन देवमनुष्यतिर्यग्नारकरूपेण कार्यभूत उत्पद्यते न तथा सिद्धरूपेणापीति । सिद्धो ह्युभयकर्मक्षये स्वयमुत्पद्यमानो नान्यतः कुतश्चिदुत्पद्यत इति । यथैव च स एव संसारी भावकर्मरूपामात्मपरिणामसंतति, द्रव्यकर्मरूपां च पुद्गलपरिणामसंततिं कार्यभूतां कारणभूतत्वेन निवर्तयन् तानि तानि देवमनुष्यतिर्यग्नारकरूपाणि कार्याण्युत्पादयत्यात्मनो न तथा सिद्धरूपमपीति । सिद्धो ह्युभयकर्मक्षये स्वयमात्मानमुत्पादयन् नान्यत्किञ्चिदुत्पादयति ॥ [३७ ] अत्र जीवाभावो मुक्तिरिति निरस्तम् । द्रव्यं द्रव्यतया शाश्वतमिति, नित्ये द्रव्ये पर्यायाणां प्रतिसमयमुच्छेद इति, द्रव्यस्य सर्वदा अभूतपर्यायैः भाव्यमिति, द्रव्यस्य सर्वदा भूतपर्यायैरभाव्यमिति, द्रव्यमन्यद्रव्यैः सह सदा शून्यमिति, द्रव्यं स्वद्रव्येण सदाऽशून्यमिति, क्वचिज्जीवद्रव्येऽनन्तं ज्ञानं क्वचित्सान्तं ज्ञानमिति, क्वचिज्जीवद्रव्येऽनन्तं क्वचित्सान्तम॑ज्ञानमिति । एतदन्यथानुपपद्यमानं मुक्तौ जीवस्य सद्भावमावेदयतीति ॥ [३८] चेतयितृत्वगुणव्याख्येयम् । एके हि चेतयितारः प्रकृष्टतरमोहमलीमसेन प्रकृष्टतरज्ञानावरणमुद्रितानुभावेन चेतकस्वभावेन प्रकृष्टतरवीर्यान्तरायाऽवसादितकार्यकारणसामर्थ्याः सुखदुःखरूपं कर्मफलमेव प्राधान्येन चेतयन्ते । अन्ये तु प्रकृष्टतरमोहमलीमसेनापि प्रकृष्टज्ञानावरणमुद्रितानुभावेन चेतकस्वभावेन मनाग्वीर्यान्तरायक्षयोपशमासादितकार्यकारणसामर्थ्याः सुखदुःखानुरूपकर्मफलानुभवनसंवलितमपि कार्यमेव प्राधान्येन चेतयन्ते । अन्यतरे तु प्रक्षालितसकलमोहकलङ्केन समुच्छिन्नकृत्स्नज्ञानावरणतयाऽत्यन्तन्मुद्रितसमस्तानुभावेन चेतकस्वभावेन समस्तवीर्यान्तरायक्षयासादितानन्तवीर्या अपि निर्जीर्णकर्मफलत्वादत्यन्तकृतकृत्यत्वाच स्वतो व्यतिरिक्तं स्वाभाविकं सुखं ज्ञानमेव चेतयन्त इति ॥ . [ ३९ ] अत्र कः किं चेतयत इत्युक्तं । चेतयन्तेऽनुभवन्ति उपलभन्ते विदन्तीत्येकार्थाश्चेतनामुभूत्युपलब्धिवेदनानामेकार्थत्वात् । तत्र स्थावराः कर्मफलं चेतयन्ते । साः कार्य चेतयन्ते । केवलज्ञानिनो ज्ञानं चेतयन्त इति ॥ अथोपयोगगुणव्याख्यानम् । [४०] आत्मनश्चैतन्यानुविधायी परिणाम उपयोगः । सोऽपि द्विविधः । ज्ञानोपयोगो दर्शनोपयो १ सिद्धावस्थायां तावदृकोत्कीर्णज्ञापकैकरूपेण विनश्वरत्वाद्रव्यरूपेण शाश्वतखरूपमस्ति. २ अथ पर्यायरूपेणागुरुलघुकगुणषट्रस्थानगतहानिवृद्धयपेक्षयोच्छेदोऽस्ति. ३ निर्विकारचिदानन्दैकखभावपरिणामेन भवनं भव्यत्वं. ४ अतीतमिथ्यात्वरागादिविभावपरिणामेन भवनं अपरिणमनमभव्यत्वं च. ५ स्वशुद्धात्मद्रव्यविलक्षणेन परद्रव्यक्षेत्रकालभावचतुष्टयेन नास्तित्वं शून्यत्वम्. ६ निजपरमात्मतत्वानुगतद्रव्यक्षेत्रकालभावरूपेणेतरमशून्यत्वम्. ७ स. मस्तद्रव्यगुणपर्यायैकसमयप्रकाशनसमर्थसकलविमलकेवलज्ञानगुणेन विज्ञानम्. ८ विनष्टमतिज्ञानादिछद्मस्थाज्ञाने परिज्ञानादविज्ञानम्. ९ मोक्षावस्थायामिदं नित्यत्वादिखभावगुणाष्टकमविद्यमानजीवसद्भावे मोक्षे न युज्यते न घटते । तदस्तित्वादेव ज्ञायते मुक्तौ शुद्धजीवसद्भावोऽस्ति. १० स्थावरकायाः. ११ आच्छादितावतमाहात्म्येन. १२ आच्छादित- १३ द्वीन्द्रियादयः. १४ सिद्धाः. १५ अव्यक्तसुखदुःखानुभवरूपं शुभाशुभकर्मफलमनुभवन्ति. १६ द्वीन्द्रियादयस्त्रसजीवाः पुनस्तदेव कर्मफलं निर्विकारपरमानन्दैकस्वभावमात्मसुखमलभमानाः सन्तो विशेषरागद्वेषानुरूपया कार्यचेतनया सहितमनुभवन्ति. १७ चैतन्यमनुविदधात्यन्वयरूपेण परिणमति, अथवा पदार्थपरिच्छित्तिकाले घटोऽयं घटोऽयमित्याद्यर्थग्रहणरूपेण व्यापारयतीति चैतन्यानुविधायी.
SR No.022407
Book TitlePanchastikay Samaysar
Original Sutra AuthorKundkundacharya
AuthorPannalal Bakliwal
PublisherParamshrut Prabhavak Mandal
Publication Year1905
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy