SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ पञ्चास्तिकायसमयसारस्य टीका । च महासत्तारूपेणाऽसत्तेत्यसत्ता सत्तायाः । येन स्वरूपेणोत्पादस्तत्तथोत्पादैकलक्षणमेव येन स्वरूपेणोच्छेदस्तत्तथोच्छेदैकलक्षणमेव येन स्वरूपेण श्रौव्यं तत्तथा ध्रौव्यैकलक्षणमेव तत उत्पद्यमानोच्छिद्यमानाऽवतिष्ठमानानां वस्तुनः स्वरूपाणां प्रत्येकं त्रैलक्षण्याभावादविलक्षणत्वं त्रिलक्षणायाः। एकस्य वस्तुनः स्वरूपसत्ता नान्यस्य वस्तुनः स्वरूपसत्ता भवतीत्यनेकत्वमेकस्याः। प्रतिनियतपदार्थस्थिताभिरेव सत्ताभिः पदार्थानां प्रतिनियमो भवतीत्येकपदार्थस्थितत्वं सर्वपदार्थस्थितायाः । प्रतिनियतैकरूपाभिरेव सत्ताभिः प्रतिनियतैकरूपत्वं वस्तूनां भवतीत्येकरूपत्वं सविश्वरूपायाः । प्रतिपर्यायनियताभिरेव सत्ताभिः प्रतिनियतैकपर्यायाणामानन्त्यं भवतीत्येकपर्यायत्वमनन्तपर्याययाः। इति सर्वमनवद्यम् सामान्यविशेषप्ररूपणप्रवणनयद्वयायत्तत्वात् तद्देशनायाः ॥ [९] अत्र सत्ताद्रव्ययोरर्थान्तरत्वं प्रत्याख्यातम् । द्रवति गच्छति सामान्यरूपेण स्वरूपेण व्यामोति तांस्तान् क्रमभुवः सहभुवश्च सद्भावपर्यायान् स्वभावविशेषानित्यनुगतार्थया निरुक्त्या द्रव्यं व्याख्यातम् । द्रव्यं च लक्ष्यलक्षणभावादिभ्यः कश्चिद्भेदेऽपि वस्तुतः सत्तायाः अपृथग्भूतमेवेति मन्तव्यम् । ततो यत्पूर्व सत्वमसत्वं त्रिलक्षणत्वमत्रिलक्षणत्वमेकत्वमनेकत्वं सर्वपदार्थस्थितत्वमेकपदार्थस्थितत्वं विश्वरूपत्वमेकरूपत्वमनन्तपर्यायत्वमेकपर्यायत्वं च प्रतिपादितं. सत्तायास्तत्सर्व तदनन्तरभूतस्य द्रव्यस्यैव द्रष्टव्यं । ततो न कश्चिदपि तेषु सत्ताविशेषोऽवशिष्येत यः सत्तां वस्तुतो द्रव्यात्पृथक् व्यवस्थापयेदिति ॥ [१०] अत्र त्रेधा द्रव्यलक्षणमुक्तम् । सद्व्यलक्षणमुक्तलक्षणायाः सत्ताया अविशेषाद्रव्यस्य सत्स्वरूपमेव लक्षणम्, नचानेकान्तात्मकस्य द्रव्यस्य सन्मात्रमेव स्वरूपं । यतो लक्ष्यलक्षणविभागाभाव इति उत्पादव्ययध्रौव्याणि वा द्रव्यलक्षणं । एकजात्यविरोधिनि क्रमभुवां भावानां संताने पूर्वभावविनाशः समुच्छेद उत्तरभावप्रादुर्भावश्च समुत्पादः। पूर्वोत्तरभावोच्छेदोत्पादयोरपि स्वजातेरपरित्यागो ध्रौव्यं । तानि सामान्यादेशादभिन्नानि विशेषादेशाद्भिन्नानि युगपदावीनि स्वभावभूतानि द्रव्यस्य लक्षणं भवन्तीति । गुणपर्याया वा द्रव्यलक्षणं । अनेकान्तात्मकस्य वस्तुनोऽन्वयिनो विशेषा गुणाः व्यतिरेकिणः पर्यायास्ते द्रव्ये यौगपद्येन क्रमेण च प्रवर्तमानाः कथञ्चिद्विन्नाः स्वभावभूताः द्रव्यलक्षणतामोपद्यन्ते । त्रयाणामप्यमीषां द्रव्यलक्षणानामेकस्मिन्नभिहितेऽन्यदुभयमर्थीदेवापद्यते । सच्चेदुत्पादव्ययध्रौव्यवच्च गुणपर्यायवच्च । उत्पादव्ययध्रौव्यवञ्चेत्सच्च गुणपर्यायवच्च । गुणपर्यायवच्चेत्सचोत्पादव्ययध्रौव्यवच्चेति। सद्धि नित्यानित्यस्वभावत्वाइवत्वमुत्पादव्ययात्मकताञ्च प्रथयति । ध्रुवत्वात्मकैर्गुणैरुत्पादव्ययादव्ययात्मकैः पर्यायैश्च सहैकत्वश्चास्याँति । उत्पादव्ययौव्याणि तु नित्यानित्यस्वरूपं परमार्थ सदावेदयन्ति । गुणपर्यायांश्चात्मलाभनिबन्धनभूतान् प्रथयन्ति । गुणपर्यायास्त्वन्वयव्यतिरेकित्वाद्रौव्योत्पत्तिविनाशान् सूचयन्ति, नित्यानित्यस्वभावं परमार्थ सच्चोपेलेक्षयन्ति ॥ [११] अत्रोभयनयाभ्यां द्रव्यलक्षणं प्रविभक्तम् । द्रव्यस्य हि सहक्रमप्रवृत्तगुणपयायसद्भावरूपस्य त्रिकालावस्थायिनोऽनादिनिधनस्य - न समुच्छेदसमुदयौ युक्तौ । अथ तस्यैव पर्यायाणां सहप्रवृत्तिभाजां केषांचित् ध्रौव्यसंभवेऽप्यपरेषां क्रमप्रवृत्तिभाजां विनाशसंभवसंभावनमुपपन्नम् । ततो -- १ एकमेकखरूपं प्रति विलक्षणत्वाभावात्. २ निश्चयः. ३ अत्र सत्तादेशनाया द्विनयाधीनत्वात्. ४ प्रत्याख्यातं निराकृतं । “प्रत्याख्यातो निराकृतः” इति वचनात्. ५ खरूपभेदान्. ६ संज्ञालक्षणप्रयोजनेन. ७ परमार्थतः. ८ ज्ञातव्यं अवबोद्धव्यं वा. ९ द्रव्यम्. १० गुणपर्यायाः- ११ द्रव्यस्य लक्षणभूताः- १२ प्राप्नुवन्ति. १३ सत्ता, उत्पादव्ययध्रौव्यवं, गुणपर्यायत्वं चेति त्रयाणाम्. १४ लक्षणे. १५ कथ्यते. १६ अर्थानुसारात्. १७ कथयति. १८ कर्तृणि. १९ विस्तारयन्ति. २० दर्शयन्ति अवबोधयन्ति वा. २१ द्रव्यार्थिकपर्यायार्थिकनयाभ्याम्.
SR No.022407
Book TitlePanchastikay Samaysar
Original Sutra AuthorKundkundacharya
AuthorPannalal Bakliwal
PublisherParamshrut Prabhavak Mandal
Publication Year1905
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy