SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् द्रव्यार्थार्पणायामनुत्पादमनुच्छेदं सत्स्वभावमेव द्रव्यं । तदेव पर्यायार्थार्पणायां सोत्पादं सोच्छेदं चावबोद्धव्यम् । सर्वमिदमनवद्यश्च द्रव्यपार्यायाणामभेदात् ॥ [१२] अत्र द्रव्यपर्यायाणामभेदो निर्दिष्टः । दुग्धदधिनवनीतघृतादिवियुतगोरसवत्पर्यायवियुतं द्रव्यं नास्ति । गोरसवियुक्तदुग्धदधिनवनीतघृतादिवद्रव्यवियुक्ताः पाया न सन्ति । ततो द्रव्यस्य पर्यायाणाश्चादेशवशात्कथंचिद् भेदेऽप्येकास्तित्वनियतत्वादन्योन्याजहद्वृत्तीनाम् वस्तुत्वेनाभेद इति ॥ [१३ ] अत्र द्रव्यगुणानामभेदो निर्दिष्टः । पुद्गलभूतस्पर्शरसगन्धवर्णवद्रव्येण विना न गुणाः संभवन्ति । स्पर्शरसगन्धवर्णपृथग्भूतपुद्गलवद्गुणैर्विना द्रव्यं न संभवति । ततो द्रव्यगुणानामप्यादेशात् कथंचिभेदेऽप्येकास्तित्वनियतत्वादन्योन्याजहद्वत्तीनां वस्तुत्वेनाभेद इति ॥ [१४] अत्र द्रव्यस्यादेशवशेनोक्ता सप्तभङ्गी । स्यादस्ति द्रव्यं स्यान्नास्ति द्रव्यं स्यादस्ति च नास्ति च द्रव्यं स्यादवक्तव्यं द्रव्यं स्यादस्ति चावक्तव्यं स्वान्नास्ति चावक्तव्यं च द्रव्यं स्यादस्ति च नास्ति चावक्तव्यमिति । अत्रं सर्वथात्वनिषेधकोऽनैकान्तिको द्योतकः कथंचिदर्थे स्थाच्छब्दो निपातः । तत्र • स्वद्रव्यक्षेत्रकालभावैरादिष्टमस्ति द्रव्यं । परद्रव्यक्षेत्रकालभावैरादिष्टं नास्ति द्रव्यं । खद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च क्रमेणादिष्टमस्ति च नास्ति च द्रव्यं वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपदादिष्टमवक्तव्यं द्रव्यं । स्वद्रव्यक्षेत्रकालभावैर्युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्वादिष्टमस्ति चावक्तव्यश्च द्रव्यं । परद्रव्यक्षेत्रकालभावैश्च युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्वादिष्टं नास्ति चावक्तव्यं द्रव्यं । स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्वादिष्टमस्ति च नास्ति चावक्तव्यं च द्रव्यमिति । नचैतदनुपपन्नम्। सर्वस्य वस्तुनः स्वरूपादिना अंशून्यत्वात्पररूपादिना शून्यत्वात् । उभाभ्यामशून्यशून्यत्वात् सहावीच्यत्वात् भैङ्गसंयोगार्पणायामशून्यावाच्यत्वात् शून्यावाच्यत्वात् अशून्यशून्यावाच्यत्वाचेति ॥ १४ ॥ [१५] अत्रासत्प्रादुर्भावमुत्पादस्य सदुच्छेदत्वं विगमर्स निषिद्ध । भविस्य सतो हि द्रव्यस्स न द्रव्यत्वेन विनाशः । अभावस्यासतोऽन्यद्रव्यस्य न द्रव्यत्वेनोत्पादः। किं तु भावाः सन्ति द्रव्याणि सदुच्छेदमसदुत्पादं चान्तरेणैव गुणपर्यायेषु विनाशमुत्पादं चारभन्ते । यथा हि घृतोत्पत्तौ गोरसस्य सतो न विनाशः न चापि गोरसव्यतिरिक्तस्यार्थान्तरस्यासतः उत्पादः किंतु गोरसस्यैव सदुच्छेदमसदुत्पादश्चानुपलभ्यमानस्य स्पर्शरसगन्धवर्णादिषु परिणामिषु गुणेषु पूर्वावस्थया विनश्यत्सूत्तरावस्थया प्रादुर्भवत्सु नश्यति च नवनीतपर्यायो घृतपर्याय उत्पद्यते तथा सर्वभावानामपीति ॥ १५ ॥ [१६] अत्र भावगुणपर्यायाः प्रज्ञापिताः। भावा हि जीवादयः षटू पदार्थाः। तेषाम् गुणाः पर्यायाश्च १ शुद्धद्रव्यार्थिकनयेन नरनारकादिविभावपरिणामोत्पत्तिविनाशरहितम्. . २ निश्चयनयेन. ३ रहितम्. ४ द्रव्यरहिताः. ५ द्रव्यगुणयोरभिन्नसत्तानिष्पन्नत्वेनाभिन्नद्रव्यत्वात् अभिन्नप्रदेशनिष्पन्नत्वेनाभिन्नक्षेत्रखात्. ६ निश्चयनयेन. ७ सप्तभङ्गयां. ८ स्याद्वादखरूपेऽस्तिनास्तिकथने. ९ तच्च खद्रव्यचतुष्टयं शुद्धजीवविषये कथ्यते, शुद्धपर्यायाधारभूतं द्रव्यं भण्यते, लोकाकाशप्रमितशुद्धासंख्येयप्रदेशाः क्षेत्रं, भण्यते वर्तमानशुद्धपर्याथरूपपरिणतो वर्तमानसमयकालो, भण्यते शुद्धचैतन्यभावश्चेत्युक्तलक्षणद्रव्यादिचतुष्टयः. १० अयुक्तम्.११ अस्तित्वात्. १२ नास्तित्वात्. १३ अस्तिनास्तिरूपेण सह एकस्मिन्समावेशशून्यत्वात्. १४ द्वाभ्यां अस्तिनास्तिभ्यां अस्तिनास्तित्वात्. १५ अस्तिनास्त्यादिभङ्गयां योज्यमानायाम्. १६ व्ययस्य विनाशस्य वा. १७ भावस्येति पदस्य कोऽर्थः । तद्यथा-सतो हि द्रव्यस्येत्यनेन विद्यमानस्य द्रव्यत्वेन न विनाश इत्यर्थः. १८ अप्राप्यमाणस्य. १९ द्रव्यगुणपायाः,
SR No.022407
Book TitlePanchastikay Samaysar
Original Sutra AuthorKundkundacharya
AuthorPannalal Bakliwal
PublisherParamshrut Prabhavak Mandal
Publication Year1905
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy