________________
रायचन्द्रजैनशास्त्रमालायाम् योगपूर्वकमस्तित्वं साधयन्ति । अनुमीयते च धर्माधर्माकाशानामूर्ध्वाऽधोमध्यलोकविभागरूपेण परिणमनात्कायत्वाख्यं सावयवत्वम् । जीवानामपि प्रत्येक मूर्ध्वाधोमध्यलोकविभागरूपे परिणमनत्वालोकपूरणावस्थाव्यवस्थितव्यक्तेस्सदा सन्निहितशक्तेस्तदनुमीयत एव । पुद्गलानामप्यूर्वाधोमध्यलोकविभागरूपपरिणतमहास्कन्धत्वप्राप्तिव्यक्तिशक्तियोगित्वात्तथाविधा सावयवत्वसिद्धिरस्त्येवेति ॥
[६] अत्र पश्चास्तिकायानां कालस्य च द्रव्यत्वमुक्तम् । द्रव्याणि हि संहकैमभुवा गुणपर्यायाणामनन्यतयाऽऽधारभूतानि भवन्ति । ततो वृत्तवर्तमानवर्तिष्यमाणानां भावानां पर्यायाणां स्वरूपेण परिणतत्वादस्तिकायानां परिवर्तनलिङ्गस्य कालस्य चास्ति द्रव्यत्वं । नच तेषां भूतभवद्भविष्यद्भावात्मना परिणममानानामनित्यत्वम् । यतस्ते भूतभवद्भविष्यद्भावावस्थास्वपि प्रतिनियतस्वरूपापरित्यागान्नित्या एव । अत्र कालः पुद्गलादिपरिवर्तनहेतुत्वात्पुद्गलादिपरिवर्तनगम्यमानपर्यायत्वाच्चास्तिकायेष्वन्तर्भावार्थ सपरिवर्तनलिङ्ग इत्युक्त इति ॥
[७] अत्र षण्णां द्रव्याणां परस्परमत्यन्तसंकरेऽपि प्रतिनियतस्वरूपादप्रच्यवनमुक्तम् । अत एव तेषां परिणामवत्वेऽपि प्राग्नित्यत्वमुक्तम् । अत एव च न तेषामेकत्वापत्तिर्न च जीवकर्मणोर्व्यवहारनयादेशादेकत्वेऽपि परस्परस्वरूपोपादानमिति ॥
[८] अत्रास्तित्वस्वरूपमुक्तम् । अस्तित्वं हि सत्ता नाम सतो भावः । सत्वं न सर्वथा नित्यतया सर्वथा क्षणिकतया बा विद्यमानमात्रं वस्तु । सर्वथा नित्यस्य वस्तुनस्तत्वतः क्रमभुवां भावानामभावात्कुतो विकारवत्वम् । सर्वथा क्षणिकस्य च तत्वतः प्रत्यभिज्ञानाभावात् कुत एकसंतानत्वम् । ततः प्रत्यभिज्ञानहेतुभूतेन केनचित्स्वरूपेण ध्रौव्यमालम्व्यमानं काभ्यांचित्क्रमप्रवृत्ताभ्यां स्वरूपाभ्यां प्रलीयमानमुपजायमानं चैककालमेव परमार्थतस्त्रितयीमवस्था बिभ्राणं वस्तु सदवबोध्यम् । अत एव सत्ताप्युत्पादव्ययध्रौव्यात्मिकाऽवबोद्धव्या । भावभाववतोः कथंचिदेकस्वरूपत्वात् । सा च त्रिलक्षणस्य समस्तस्यापि वस्तुविस्तारस्य सादृश्यसूचकत्वादेका । सर्वपदार्थस्थिता च । त्रिलक्षणस्य सदित्यभिधानस्य सदिति प्रेत्ययस्य च सर्वपदार्थेषु तन्मूलस्यैवोपलम्भात् । सविश्वरूपा च विश्वस्य समस्तवस्तुविस्तारस्यापि रूपैस्त्रिलक्षणैः स्वभावैः सह वर्तमानत्वात् । अनन्तपर्याया चानन्ताभिर्द्रव्यपर्यायव्यक्तिभिस्त्रिलक्षणाभिः परिगम्यमानत्वात् । एवंभूतापि सा न खलु निरङ्कुशा किं तु सप्रतिपक्षा । प्रतिपक्षो ह्यसत्ता सत्तायाः, अत्रिलक्षणत्वं त्रिलक्षणायाः, अनेकत्वमेकस्याः, एकपदार्थस्थितत्वं सर्वपदार्थस्थितायाः, एकरूपत्वम् सर्वविश्वरूपायाः, एकपर्यायत्वमनन्तपर्यायाया इति । द्विविधा हि सत्ता महासत्तावान्तरसत्ता च । तत्र सर्वपदार्थसार्थव्यापिनी सादृश्यास्तित्वसूचिका महासत्ता प्रोक्तव । अन्या तु प्रतिनियमवस्तुवर्तिनी खरूपास्तित्वसूचिकाऽवान्तरसत्ता । तत्र महासत्ताऽवान्तरसत्तारूपेणाऽसत्ताऽवान्तरसत्ता
१ शुद्धजीवास्तिकायस्य या अनन्तज्ञानादिगुणसत्ता सिद्धिपर्यायसत्ता च शुद्धा संख्यातप्रदेशरूपं कायत्वमुपादेयमिति. २ द्रव्यस्य सहभुवो गुणाः. ३ द्रव्यस्य क्रमभुवः पर्यायाः. ४ पञ्चास्तिकायाः. ५ अत्र पञ्चास्तिकायप्रकरणे. ६ परिवर्तनमेव पुद्गलादिपरिणमनमेव अग्नेधूमवत्कार्यभूतं लिङ्गं चिह्न गमकं सूचकं यस्य स भवति परिवर्तनलिङ्गकालाणुद्रव्यरूपो द्रव्यकालस्तेन संयुक्तः । ननु कालद्रव्यसंयुक्त इति वक्तव्यं परिवर्तनलिङ्गसंयुक्त इत्यवक्तव्यवचनं किमर्थमिति । नैवं पञ्चास्तिकायप्रकरणे कालमुख्यता नास्तीति पदार्थानां नवजीर्णपरिणतिरूपेण कायलिङ्गेन ज्ञायते. ७ स्वकीयखकीयस्वरूपात्. ८ तेषां द्रव्याणां. ९ निश्चयात् खभावात्. १० पर्यायाणाम्. ११ पूर्वानुभूतदर्शनेन जायमानं ज्ञानं प्रत्यभिज्ञानम्. १२ पर्यायाभ्याम्. १३ पर्यायद्रव्ययोः परिणामपरिणामिनोर्वा. १४ उत्पादध्रौव्यव्यययुक्तस्य. १५ अर्थस्य तयोराधारभूतस्य तद्गुणस्य. १६ व्यापकत्वात्. १७ अवान्तरसत्ता.