SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ - पञ्चास्तिकायसमयसारस्य टीका । नयप्रयोगात् । द्वौ हि नयौ भगवता प्रणीतौ द्रव्यार्थिकः पैर्यायार्थिकश्च । तत्र न खल्वेकनयायत्ताऽऽदेशनों किन्तु तदुभयायत्ता । ततः पर्यायार्थादेशादस्तित्वे स्वतःकथंचिद्भिन्नेऽपि व्यवस्थिताः द्रव्या देशात्स्वयमेव सन्तः संतोऽनन्यमयों भवन्तीति । कायत्वमपि तेषामणुमहत्वात् । अणवोऽत्र प्रदेशा मूर्ताऽमूर्ताश्च निर्विभागांशास्तैः महान्तोऽणुमहान्तः प्रदेशप्रचयात्मका इति सिद्धं तेषां कोयत्वं । अणुभ्यां महान्त इति व्युत्पत्त्या द्वयणुकपुद्गलस्कन्धानामपि तथाविधत्वम् । अणवश्च महान्तश्च व्यक्तिशक्तिरूपाभ्यामिति परमाणूनामेकप्रदेशात्मकत्वेऽपि तैत्सिद्धिः । व्यक्त्यपेक्षया शक्त्यपेक्षया च प्रदेशप्रचयात्मकस्य महत्व. स्याभावात्कालौघूनामस्तित्वनियतत्वेऽप्यकायत्वमनेनैव साधितम् । अतएव तेषामस्तिकायप्रकरणे सतामप्यनुपादानमिति ॥ [५] अंत्र पञ्चास्तिकायानामस्तित्वसंभवप्रकारः कायत्वसंभवप्रकारश्चोक्तः । अस्ति यस्तिकायानां गुणैः पर्यायैश्च विविधैः सह स्वभावो आत्मभावोऽनन्यत्वम् । वस्तुनो विशेषां हि व्यतिरेकिणः पर्याया गुणास्तु त एवान्वयिनैः । तत एकेन पर्यायेण प्रलीयमानस्यान्येनोपजायमानस्यान्वयिना गुणेन ध्रौव्यं विभ्राणस्सैकस्याऽपि वस्तुनः समुच्छेदोत्पादध्रौव्यलक्षणमस्तित्वमुपपद्यतएव । गुणपर्यायैः सह सर्वथान्यत्वे त्वन्यो विनश्यत्यन्यः प्रादुर्भवत्यन्यो ध्रुवत्वमालम्बत इति सर्व विप्लवते । ततः साध्वस्तित्वसंभवप्रकारकथनं। कायत्वसंभवप्रकारस्त्वयमुपदिश्यते । अवैयविनो हि जीवपुद्गलधर्माऽधाऽऽकाशपदार्थास्ते मवयवा अपि प्रदेशाख्याः परस्परव्यतिरेकित्वात्पर्याया उच्यन्ते । तेषां तैः सहानन्यत्वे कायत्वसिद्धिरुपैत्तिमती । निरवयवस्यापि परमाणोः सावयवत्वशक्तिसभावात् कायत्वसिद्धिरत एवानपवादा । न चैवं तदा शङ्कयम् पुद्गलादन्येषाममूर्तत्वादविभाज्यानां सावयत्वकल्पनमन्याय्यम् । दृश्यत एवाविभौज्येऽपि विहायसीदं घटाकाशमिदमघटाकाशमिति विभागकल्पनम् । यदि तंत्र विभागो न कल्पेत तदा यदेव घटाकाशं तदेवाघटाकाशं स्यात् । न च तदिष्टं । ततः कालाणुभ्योऽन्यत्र सर्वेषां कायत्वाख्यं सावयवत्वमवसेयं । त्र्यैलोक्यरूपेण निष्पन्नत्वमपि तेषामस्तिकायत्वसाधनपरमुपन्यस्तम् । तथाच-त्रयाणामूर्ध्वाऽधोमध्यलोकानामुत्पादव्ययध्रौव्यवन्तस्तैदेविशेषात्मका भावा भवन्तस्तेषां मूलपदार्थानां गुणपर्यय १ द्रव्यपर्यायात्मके वस्तुनि द्रव्ये पर्याये वा वस्तुताध्यवसायो नय इति यावत् । यद्वा स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः. २ तत्र पर्यायाभावात् द्रव्यमेवार्थः प्रयोजनमस्येति द्रव्यार्थिकः. ३ द्रव्याभावात् पर्याय एवार्थः प्रयोजनमस्येति पर्यायार्थिकः. ४ द्वयोर्नययोर्मध्ये. ५ सर्वज्ञानामुपदेशः. ६ तिष्ठमानाः पञ्चास्तिकायाः. ७ विद्यमानाः भवन्तः. ८ अस्तित्वतः. ९ अपृथग्भूताः. १० निर्विभागैरणुभिः. ११ अणुभिः प्रदेशैर्महान्तः अणुमहान्तः क्ष्यणुकस्कन्धापेक्षया द्वाभ्यामणुभ्यां महान्त इति कायवमुक्तं । एकप्रदेशाणोः कथं कायत्वमिति चेत् स्कन्धानां कारणभूतायाः स्निग्धरूपत्वशक्तेः सद्भावादुपचारेण कायत्वं भवति. १२ कायत्वसिद्धिः. १३ कालाणूनां पुनर्बन्धकारणभूतायाः स्निग्धरूक्षत्वशक्तेः सदभावादुपचारेण कायत्वं नास्ति. १४ कालाणूनां. १५ विद्यमानानाम्. १६ अथ पूर्वोक्तमस्तिवं केन प्रकारेण संभवतीति प्रतिज्ञापयति. १७ सहभुवो गुणाः. १८ व्यतिरेकिणः पर्यायैः. १९ अभिन्नत्वं. २० वस्तुनः द्रव्यस्य. २१ केवलज्ञानादयो गुणाः. २२ एकस्यापि वस्तुनो भूतभाविभवत्पर्यायभेदेषु वर्तमानस्य यदनुगतप्रत्ययोत्पादकं सोऽन्वयः स एषामिति ते अन्वयिनः. २३ भिन्नत्वे. २४ विनश्यति. २५.प्रदेशाख्या अवयवाः विद्यन्ते येषां ते अवयविनः. २६ तेषां जीवादिपदार्थानाम् त्रिभुवनाकारपरिणतानां सावयवत्वात् सः प्रदेशाख्यः. २७ अन्योन्यभिन्नत्वात् भिन्नत्वात् पृथग्भावाद्वा. २८ अस्तिकायानां. २९ तैः पर्यायैः. ३० अभिन्नत्वे. ३१ युक्तिमती. ३२ अपवादरहिता निश्चयसिद्धिरित्यर्थः. ३३ विभागरहितानां अखण्डानां. ३४ अयोग्यमिति शङ्का न कर्तव्या. ३५ विभागरहिते. ३६ आकाशे. ३७ इष्टं मान्यं. ३८ कालद्रव्यं विहाय कायत्वं च विद्यते इति अङ्गीकर्तव्यम्. ३९ तेषामूर्ध्वाधोमध्यलोकानां.
SR No.022407
Book TitlePanchastikay Samaysar
Original Sutra AuthorKundkundacharya
AuthorPannalal Bakliwal
PublisherParamshrut Prabhavak Mandal
Publication Year1905
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy