________________
रायचन्द्रजैनशास्त्रमालायाम् ज्ञानातिशयानामपि योगीन्द्राणां वन्द्यत्वमुदितम् । जितो भव आजवं जवो यैरित्यनेन तु कृतकृत्यत्वप्रकटनात्त एवान्येषामकृतकृत्यानां शरण मित्युपदिष्टम् । इति सर्वपदानां तात्पर्यम् ॥
[ २ ] समयो ह्यागमः । तस्य प्रणामपूर्वकमात्मनाभिधानमंत्र प्रतिज्ञातम् । पूज्यते हि स प्रणन्तु. मभिधातुं चाप्तोपदिष्टत्वे सति सफलत्वात् । तत्राप्तोपदिष्टत्वमस्य श्रमणमुखोद्गतार्थत्वात् । श्रमणा हि महाश्रमणाः सर्वज्ञवीतरागाः। अर्थः पुनरनेकशब्दसंबन्धेनाभिधीयमानो वस्तुतयैकोऽभिधेयः। सफलत्वं तु चतसृणां नारकतिर्यग्मनुष्यदेवत्वलक्षणानां गतीनां निवारणत्वात्, साक्षात् पारतन्त्र्यनिवृत्तिलक्षणस्य निर्वाणस्य शुद्धात्मतत्वोपलम्भरूपस्य परम्परया कारणत्वात् , स्वातन्त्र्यप्राप्तिलक्षणस्य च फलस्य सद्भावादिति ॥
[ ३ ] अत्र शब्दज्ञानार्थरूपेण त्रिविधाऽभिधेयता समयशब्दस्य लोकालोकविभागश्चाभिहितः । तंत्र च पञ्चानामस्तिकायानां समो मध्यस्थो रागद्वेषाभ्यामनुपहतो वर्णपदवाक्यसन्निवेशविशिष्टः पाठो वादः शब्दसमयः शब्दागम इति यावत् । तेषामेव मिथ्यादर्शनोदयोच्छेदे सति सम्यगवायः परिच्छेदो ज्ञानसमयो ज्ञानागम इति यावत् । तेषामेवाभिधानप्रत्ययपरिच्छिन्नानां वस्तुरूपेण समवायः संघातोऽर्थसमयः सर्वपदार्थसार्थ इति यावत् । तदत्र ज्ञानसमयप्रसिद्ध्यर्थं शब्दसमयसंबन्धनार्थसमयोऽभिधातुमभिप्रेतः । अथ तस्यैवार्थसमयस्य द्वैविध्यं लोकालोकविकल्पनात् । स एव पञ्चास्तिकायसमयो यावांस्तावाल्लोकस्ततः परममितोऽनन्तो ह्यलोकः, स तु नाभावमात्र । किं तु तत्समवायातिरिक्तपरिमाणमनन्तक्षेत्र खमाकाशमिति ॥
[ ४ ] अत्र पञ्चास्तिकायानां विशेषसंज्ञा सामान्यविशेषास्तित्वं कोयत्वं चोक्तं । तत्र जीवाः पुद्गलीः धेधिम्मौ आकौशमिति । तेषां विशेषसंज्ञा अॅन्वर्थाः प्रत्येयाः । सामान्यविशेषास्तित्वञ्च तेषामुत्पादव्ययध्रौव्यमय्यां सामान्यविशेषसत्तीयां नियतत्वद्वियवस्थित्वावंसेयम् । अस्तित्वे नियेतानामपि न तेषामन्यमयत्वम् । यतस्ते सर्वदैवानन्यमया औत्मनिर्वृत्ताः । अनन्यमयत्वेऽपि तेषामस्तित्वनियतत्वं
१ घातिकर्मापायातिशयप्रतिपादनेन. २ कृतकार्यत्वप्रकाशनातू. ३ अकृतकार्याणाम्. ४ शरणं नान्य इति प्रतिपादितमस्ति. ५ द्रव्यागमरूपशब्दसमयोऽभिधानवाचकः ६ आगमस्य मध्ये. ७ प्रतिज्ञयावधारितम्. ८ अत्र समयव्याख्यायां समयशब्दस्य शब्दज्ञानार्थभेदेन पूर्वोक्तमेव त्रिविधव्याख्यानं विवियते पञ्चानां जीवाद्यस्तिकायानां प्रतिपादको वर्णपदवाक्यरूपो वादः पाठः शब्दसमयो द्रव्यागम इति यावत् । तेषां पञ्चानां मिथ्यात्वोदयाभावे सति संशय, विमोह, विभ्रम, रहितत्वेन सम्यग् यो बोधनिर्णयो निश्चयो ज्ञानसमर्थोऽर्थपरिच्छित्ति वश्रुतरूपो भावागम इति यावत् तेन द्रव्यागमरूपसमयेन वाच्यो भावभुतरूपज्ञानसमयेन परिच्छेद्यः पञ्चानामस्तिकायानां समूहः समय इति हि मन्यते । तत्र शब्दसमयाधारेण ज्ञानसमयप्रसिद्ध्यर्थं समयोऽत्र व्याख्यातुं प्रारब्धः ९ त्रिषु समयेषु. १० द्रव्यरूपशब्दसमयः. ११ भावागमसम्यग्ज्ञानम्. १२ ज्ञातानाम्. १३ अत्र ग्रन्थे त्रिषु मध्ये वा. १४ वाञ्छितः प्रारब्धः. १५ लोक्यन्ते दृश्यन्ते जीवादिपदार्थी यत्र स लोकः. १६ लोकात्तस्मात् बहिर्भूतमनन्तशुद्धाकाशमलोकः. १७ कायाकायाइव काया बहुप्रदेशोपचयत्वात् शरीरवत्वं प्रतिपादितं. १८ यत्किमपि चिद्रूपं स जीवास्तिकायो भण्यते. १९ यदृश्यमानं किमपि पञ्चेन्द्रिययोग्यं स पुद्गलास्तिकायो भण्यते. २० तयोर्जीवपुद्गलयोर्गतिहेतुलक्षणो धर्मः. २१ स्थितिहेतुलक्षणश्चाधर्मः. २२ अवगाहनलक्षणं. २३ अस्तिकायानां पञ्चानां. २४ यथार्थाः. २५ अस्तित्वे सामान्यविशेषसत्तायां नियताः स्थिताः तर्हि सत्तायाः सकाशात् कुण्डे बदराणीव भिन्ना भविष्यन्ति. २६ निश्चितखात्. २७ विशेषरहितं ज्ञातव्यं. २८ अविनश्वराणाम्. २९ तेषां पञ्चास्तिकायानां. ३० पृथग्वत्वम्. ३१ अपृथग्भूताः । यथा घटे रूपादयः शरीरे हस्तादयः । अनेन व्याख्यानेन आधाराधेयभावेऽप्यभिन्नास्तित्वमू. ३२ खतः निष्पन्नाः. ३३ नियतत्वं निश्चलत्वम्.