SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ॐ नमः सिद्धेभ्यः। अथ पञ्चास्तिकायसमयसारस्य श्रीमदमृतचन्द्राचार्यकृता संस्कृतटीका। - मङ्गलाचरणम् । सहजानन्दचैतन्यप्रकाशाय महीयसे । नमोऽनेकान्तविश्रान्तमहिम्ने परमात्मने ॥१॥ दुर्निवारनयानीकविरोधध्वंसनौषधिः। स्यात्कारजीविता जीयाजैनी सिद्धान्त-पद्धतिः ॥२॥ सम्यग्ज्ञानामलज्योतिर्जननी द्विनयाश्रया। अथातः समयव्याख्या संक्षेपेणाऽभिधीयते ॥३॥ पञ्चास्तिकायषद्रव्यप्रकारेण प्ररूपणं । पूर्व मूलपदार्थानामिह सूत्रकृता कृतम् ॥ ४॥ जीवाजीवद्विपर्यायरूपाणां चित्रवर्त्मनाम् । ततो नवपदार्थानां व्यवस्था प्रतिपादिता ॥५॥ ततस्तत्वपंरिज्ञानपूर्वेण त्रितयात्मना । प्रोक्ता मार्गेण कल्याणी मोक्षप्राप्तिरपश्चिमा ॥६॥ [१] अथात्र 'नमो जिनेभ्यः' इत्यनेन जिनभावनमस्काररूपमसाधारणं शास्त्रस्याऽऽदौ मङ्गलमुपात्तं । अनादिना संतानेन प्रवर्त्तमाना अनादिनैव संतानेन प्रवर्त्तमानैरिन्द्राणां शतैर्वन्दिता ये इत्यनेन सर्वदैव देवाधिदेवत्वात्तेषामेवाऽसाँधारणनमस्कारार्हत्वमुक्तम् । त्रिभुवनमूर्ध्वाधोमध्यलोकवर्ती समस्त एव जीवलोकस्तस्मै निर्व्याबाधविशुद्ध्यात्मतत्वोपलम्भोपायाभिधायित्वाद्धितं । परमार्थरसिकजनमनोहारित्वान्मधुरम् । निरस्तसमस्तशंकादिदोषास्पदत्वाद्विशदवाक्यम् । दिव्यो ध्वनिर्येषामित्यनेन समस्तवस्तुयाथात्म्योपदेशित्वात्प्रेक्षावत्प्रतीक्ष्यत्वमाख्यातम् । अन्तमतीतः क्षेत्रानवच्छिन्नः कालानवच्छिनश्च परमचैतन्यशक्तिविलासलक्षणो गुणो येषामित्यनेन तु परमाद्भुतज्ञानातिशयप्रकाशनादवाप्त १ पूज्याय गरिष्ठाय वा. २ द्रव्यार्थिक-पर्यायार्थिक-भेदेन वा व्यवहारनिश्चयेन. ३ समुच्चयेन. ४ कथ्यते. ५ तावत् प्रथमतः पञ्चास्तिकायषड्द्रव्यप्रतिपादनरूपेण प्रथमोऽधिकारः. ६ इह ग्रन्थे प्रथमाधिकारे वा. ७ आचार्येण, (मूलक" श्रीवर्धमानः, उत्तरकर्ता श्रीगौतमगणधरः, उत्तरोत्तरकर्ता श्रीकुन्दकुन्दाचार्यः सूत्रकारः) ८ सप्ततखनवपदार्थव्याख्यानरूपेण द्वितीयोऽधिकारः ९ पञ्चास्तिकायषड्द्रव्यनवपदार्थानां ज्ञानपूर्वेण. १० उत्तमा. ११ अनेकभवगहनव्यसनप्रापणहेतून् कारातीन् जयन्तीति जिनाः तेभ्यः. १२ नमस्कारेण. १३ असदृशम्. १४ मलं पापं गालयतीति मङ्गलम्, वा मङ्गं सुखं तल्लातीति गृह्णातीति मङ्गलं. १५ विशेषणेन वाक्येन वा. १६ जिनानाम्. १७ अनन्यसदृशम्. १८ जीवलोकाय त्रिभुवनाय. १९ वीतरागनिर्विकल्पसमाधिसंजातसहजापूर्वपरमानन्दरूपपारमार्थिकसुखरसावादसमरसीभावरसिकजनमनोहारिखात् मधुरम्. २० प्रकृष्टाश्चर्यज्ञानप्रतापप्रकाशनातू।
SR No.022407
Book TitlePanchastikay Samaysar
Original Sutra AuthorKundkundacharya
AuthorPannalal Bakliwal
PublisherParamshrut Prabhavak Mandal
Publication Year1905
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy