________________
न्यायसिन्धौ.
( ६४ )
हेतुं विना न नियमोऽस्य भवेत्तथा च, किं भ्रान्तिवृत्तिरपि नानियतस्य वास्य ॥ ३४० ॥ ज्ञानत्ववन्निखिल बोधगतं प्रमात्वं, स्वाभाविकं भवितुमर्हति न क्वचित् ॥ दोषान्न तस्य यदि जन्म तदा कथं न, पूर्वोक्तनीतिबलतः परतोऽस्य जन्म ॥ ३४९ ॥ किं वाप्रमात्वमपि तत्समकक्षमेव, स्वाभाविकन्न तव सम्मतमत्र विद्वन् ॥ किं प्रक्रिया भवतु युक्तिमृते त्वदुक्ता, हास्यास्पदं न शतधाऽपि प्रलप्यमाना ॥ ३४२ ॥ संवादितादिपरहेतुत एव तस्य, ज्ञप्तिस्तथा जनकबोधगतस्य युक्ता ॥ भ्रान्तित्वबुद्धिरिव नात्र विशेषलेशो, लोकानुसारिसरणावुपलक्ष्यते यत् ॥ ३४३ ॥
अर्थक्रियामतिगतं प्रमितित्वमिष्टं,
ज्ञप्तौ स्वतो जिनमतानुगतैस्ततो नो ॥ मानानवस्थितिरपीह भवेच्च येन,
प्रामाण्यबुद्धिरखिलेषु परानपेक्षा || ३ ४४ ॥ प्रामाण्यसंशयमतिन्न भवेत् स्वतस्त्वे,
ज्ञानग्रहे तदपि निश्चितमेव यस्मात् ॥ ज्ञानाग्रहे तु न भवेत्सुतरां यतोऽस्यां, धर्मिग्रहो बुधमतो जनको बुधाय ॥ ३४५ ||