________________
॥ प्रामाण्यस्य स्वतस्त्वपरतस्त्वविचारः ॥
(६५
प्रामाण्यमंशमिह बोधगतं विशेष
कर्मक्षयोपशमतो जिनसम्प्रदाये ॥ बोधोऽवगाहत इतीष्यत एवमेव
ज्ञानस्वरूपमपि तत्प्रथते न पूर्वम् ॥४४६।। एतेन केवलमतौ प्रमितित्वबुद्धिः
स्वस्माद्भवेनिखिलकमलयान्न भिन्नात् ॥ इत्युक्तमेव तत एव तदुत्थबोधे
प्रामाण्यसंशयकथाऽपि न सावकाशा ॥३४७॥ किञ्च प्रमाणमपरं यदि नैव किञ्चित्
संवादितादिकमपेक्षत आत्मसिद्धौ ॥ मीमांसकाहत इवास्तु तथागतोक्तः । प्रामाण्यभागिह तदागम आप्तमान्यः ॥३४८॥ बुद्धोक्तवाक्यजनिते यदि न प्रमात्वं, बाधात्तदा भवतु तढिरहेण बोधे ।। प्रामाण्यसिद्धिरिति किं परतो न सिद्धि
भंड्यन्तरात्तव मता प्रमितौ हिजाग्रय ॥३४९॥ यस्मात्पृथक्तव मते विरहो न तुच्छो
बाधस्य किन्तु स भवेच्च तदन्यभावः ॥ संवादिता भवतु वा गुणजन्यता वा
किं वाऽन्य एव परतः प्रमितिस्तु सिद्धा॥३५० कण्ठादितोऽक्षरजनिर्जनताप्रसिद्धा तेषान्ततिः कथमजन्यतयाऽभ्युपेया ॥