________________
॥ प्रमात्वस्य स्वतस्त्वपरतस्त्वविचारः ॥
(६३)
हेतौ प्रमात्वमथ नास्ति यतो न तस्मा
खेतोः प्रमात्वभवनश्च मतो मतन्ते ॥ ज्ञानत्वमप्यनुमतन्न च तर्हि ते स्यात्
किं वा भ्रमत्वमपि ते स्वत एव तद्वत्॥३३५॥ यत्कारणाद् घटपटादिपदार्थजन्म,
शक्तिश्च तेषु तत एव न जायते किम् ॥ नैर्मल्यतो नयनगात्प्रमितिः प्रतीता
प्रामाण्यशक्तिरपि तस्य गुणात्ततोऽस्तु ॥३३६॥ मीमांसकैन पृथगेव मतोऽप्यभावो
भावाच्च दोषविरहोऽत्र गुणः प्रमायाम् ॥ येनास्तु हेतुरपि न व्यतिरिक्तभाव
जन्यत्वमस्य तत एव भवेत्स्वतस्त्वम् ॥३३७॥ दोषोऽथवा भवतु किन्न गुणस्वभावा
भावोऽप्रमाजनक इत्यपि भावयान्तः ।। प्रामाण्यमेव परतोऽस्तु गुणस्वभावात्, स्याद्धान्तिताऽपरत एव विपर्ययेण ॥३३८॥ पित्तादिको नयनगोऽथ यथैव दोषो,
लोकप्रसिद्धपदवीमवगाहते ते ॥ किन्नो तथैव जनताप्रमितो गुणो नस्सिद्धिं प्रयातु न विशेष इहास्ति कश्चित् ३३९ औत्सर्गिकं भवति बोधगतं प्रमात्वं, तस्मात् स्वतो यदि मतन्न च तच्च युक्तम् ॥