________________
॥ इन्द्रियविचारः प्रमात्वेस्वस्त्वपरतस्त्वविचारश्च ॥ (६१)
भावेन्द्रियन्तदिव लब्ध्युपयोगभेदा
दन्त्यं द्विधा प्रथममावरणक्षयादि । ज्ञानं द्वितीयमुपयोगतया प्रसिद्ध,
साक्षात्तदेव जनकं प्रमितेर्ह मानम् ॥ ३२४ ॥ किञ्चेन्द्रियं भवति नार्थमतौ समर्थ
कुम्भादिवजडतयाऽस्वप्रकाशकत्वात् ॥ तद्भौतिकन्तित्र मतञ्च सुषुप्तिकाले किन्तूलिकादिषु मतिन करोति सत्त्वात्॥३२५॥ नो मानसं भवति चाणु यतस्तदास्य बाह्येन्द्रियेण घटनाविलयान्न बोधः ॥ स्यादिन्द्रियत्वत इदं च महत्त्वयोगि नेत्रादिवत्तव मतेन कथन्न विद्वन् ॥३२६॥ लब्धीन्द्रियक्रमविशेषवशात् कमोऽपि
नेत्रादिजन्यमतिषूपगतोऽत्र जैनैः । नास्मिन्मते मनस इन्द्रियताऽप्यभीष्टा
प्रोक्तं ह्यनिन्द्रियमिदं जिनतन्त्रविज्ञैः ॥३२७॥ स्वांशे प्रमा निखिल एव मतोऽत्र बोधो
ऽर्थे त्वप्रमापि विपरीतप्रकाशकत्वात् ।। याथार्थ्यगोचरमतित्वमिह प्रमात्वं स्यादप्रमात्वमितरत्तत आर्हतानाम् ॥३२८॥ एतदद्वयं स्वजनने परतस्स्वतो न ज्ञप्तौ स्वतश्च परतश्च मतं जिनानाम् ॥