________________
(६०) www
न्यायसिन्धौ
moc
आपादनं भवति सर्वमनिष्टरूपं, स्याहादवादिनि न तस्य यतोऽवकाशः ॥३१८॥ अर्थप्रसिद्धिरपि न प्रमितेविभिन्ना, प्रामाण्यबुद्धिरपि तत्र च पूर्वनीत्या ॥ अन्योन्यसंश्रयघटा नहि विद्यतेऽत्र, भ्रान्तित्वसिद्धिरपि तदिह प्रसिद्धा ।।३१९॥ अर्थाननर्थजनकाननुचिन्त्य बौद्ध,
नैरात्म्यदर्शनमतं प्रकटीकरोषि॥ तत्रापि तेऽस्ति नहि वासनया विनैव,
लोकव्यवस्थितिरतस्तु महाननर्थः ॥३२०॥ मा वासनाजलभृतान्धुपरम्परायां,
लोकाः पतन्विति पदार्थततौ विचिन्त्य ।। लोकोपकाररसिकोऽपि किमर्थमज्ञ,
स्याहादतन्त्रममलं न करोषि चित्ते ॥३२१॥ नैयायिकोपगतमिन्द्रियमप्रमाणं, साक्षात्प्रमाजनकताविरहात्तथा चेत् ॥ अन्नादि तर्हि न परम्परयाऽपि किन्तै
निम्मतं जनकताघटनाच्च तहत् ॥३२२॥ जैनर्दिधेन्द्रियनिरूपणमुक्तमत्र, द्रव्येन्द्रियं प्रथमतो द्विविधश्च तत्र ॥ शक्तिमतोपकरणेन्द्रियमिन्द्रियाणानिर्वृत्तिरूपमपरं खलु गोलकादि ॥३२३॥