________________
॥ शून्यवादिमतखण्डनम् ॥
संवादखण्डनमनेन यदि व्यलीकं,
संवादसिद्धिरिह तर्हि भवेदबाध्या ॥ सत्यं मतं यदि तदा नहि सर्वमेव,
शून्यं तवोपगमतोऽपि प्रसिद्धिमेतु, ॥३१३॥ ग्राह्यो जडोऽत्र किमु नो न तथास्वभावात्,
किं ग्राहकोऽपि तत एव भवेन्न बोधः ॥ वह्नियथा दहति काष्ठमसौ तथा किं, नाग्नि स्वभावबलमेव भवेदिहापि ॥३१॥ शून्यत्वसिद्धिरिह ते ननु यैर्विचारैस्सत्यत्वसिद्धिरपि तैन कथं जगत्सु ॥ इत्यत्र किं बुध तवापि तमन्तरास्ति,
वादे विपक्षदलने हि गतिहितीया ॥३१५|| ग्राह्योऽपि बोध इह संविदितो निजेन,
नो नो विरोधघटना प्रमिते स्वभावे ॥ स्वेष्टप्रसाधकतया तव सम्मतः किं,
नान्येष्टबाधकतयाऽभिमतो विचारः ॥३१६॥ ग्राह्यस्वभावपरिणामतया तु बाह्यो, ज्ञानेन बोध इह बोधकतास्वभावः ॥ अर्थेन किन्नहि कथञ्चिदनन्तधर्मा, सजायते भवतु येन विकल्पदुष्टः ॥३१७॥ एकान्तवादमवलम्ब्य प्रदर्शितो न, . दोषोऽत्र जैनसरणौ लभते प्रतिष्ठाम् ॥