________________
(५८)
न्यायसिन्धौ.
तस्मात्कथं कथय शन्यतयैव विश्वं
स्वीकार्यमन्धजनताप्रणिगद्यमानम् ॥३०७॥ संवेदनात् स्वत उभे च दशे प्रबोध
स्वप्नात्मके प्रतिजनं पृथगेव भातः ॥ प्रामाण्यतद्विरहरूपतया तथाऽत्र स्वप्ने व्यलोकप्रथनन्नहि सर्वथाऽस्ति ॥३०८॥ अर्थक्रियावगतिरन्यप्रमां विनैव मानं स्वतो भवति मानतया गृहीता ॥ तस्यास्तु साधनमतेः प्रमितत्वबुद्धि
नैकान्ततः परत एव प्रमात्वबुद्धिः ॥३०९॥ एतेन गौतममतन्तव युक्तिजालान्
मीमांसकस्य च मतन्निरुपद्रवन्नो ॥ एकान्ततः परत एव प्रमात्वसिद्धिरेकान्ततोऽपरत एव मता हि ताभ्याम् ॥३१०॥ यैस्तु प्रमात्वमतिरन्यमतौ प्रसिद्धयेत्, संवादका ननु भवन्ति त एव बोधाः ॥ तुल्यावगाह्यसमगोचरतादि जैनै
नैकान्ततो नियमतश्च मतन्तथात्वे ॥३११॥ किञ्चित्करादिकविकल्पभरेण ते चेत्
संवादखण्डनमगामविज्ञ तर्हि ॥ सिद्धयेठिकल्पनिकरोऽपि कथं स्वहेतोस्तत्राप्यरण्यरुदितनिखिलन्वदुक्तम् ॥३१२॥