________________
॥ शून्यवादिमतप्रदर्शनम् ॥
(५७)
एतेन सिद्धमसदेव तवोक्तिजालं यबाधितार्थविषयत्वनिराक्रियार्थम् ॥ येन भ्रमत्वमननं सुदृढं भ्रमे स्यात्
तत्सर्वमेव ननु बाधकमिष्टमिष्टैः ॥३०२॥ तग्राहकोऽन्यविषयोऽथ च तुल्यकालः किम्वान्यकाल इति नात्र विशेष इष्टः॥ स्याहादिना भ्रममतित्वविनिर्णयो ये
स्ते बाधका बुधविकल्पभरेण तेऽलम् ॥३०३॥ अन्योन्यगोचरविरुद्धमतित्वसाम्येऽप्येकं भ्रमत्वमपरत्र प्रकाशयेद्यत् ॥ तबाधकं भवति तस्य प्रमास्वरूपं
पूर्वं भवेद् भवतु वोत्तरमन्यदेतत् ॥३०४॥ शुक्तौ यथोत्तरमतेः प्रथमस्य बोधो दृष्टस्तथा प्रथमतो न किमुत्तरस्य । किं वर्तमानमपि शौक्ल्यमतिन्न शङ्के
पीतत्वबोधमुपहन्ति जनस्य पूर्वा ॥३०५॥ द्वित्वञ्च चन्द्रमसि यद्यपि दोषसाम्यात् पश्यन्ति येऽपि मिथ एव तदालपन्ति ॥ तेषान्तथापि किमु नैक्यमतेः स्मृताया भ्रान्तित्वनिर्णय उदेति तथाप्तवाक्यात् ॥३०६॥ नैकान्ततो भवति च भ्रमतैव तस्य चन्द्रे च सत्यमतिताऽपि मतार्हतानाम् ॥