________________
॥ शून्यवादिमतखण्डनम् ॥
स्वप्नेऽस्थिरं चलमसम्भवितात्मजन्मा
द्यालोचनादि च परस्परबाधितश्च ॥ ज्ञानं प्रबोधसमये तु विविक्तमस्मा
देवं स्थितौ हि न तयोर्व्यतिरिक्तता किम् २९१ यत्काकतालमिव सत्यमताविव स्यात् स्वप्नेऽपि यद्यपि समानमतेर्विलासात् ।। संवादितादिघटनान्धपरम्परेव
किं स्यात्तथापि नहि बाधितगोचरत्वम् ॥२९॥ सत्यत्वनिर्णयमतिस्तु भवेच्च जाग्रत्
स्वस्थप्रबोधमतितोऽर्थविनिर्णयेन ॥ स्वप्नेऽप्यसत्प्रथनमिष्टमनल्पविशे
जैनेन यद् भवतु तेन कथन्न भावः ॥२९३॥ नासन्मतो तव तु कारणमस्ति किञ्चि
नो वासनापि नियता तु विना पदार्थम् ॥ किन्त्वन्यथा प्रथनमेव जिनागम -
स्स्वप्ने निरूपितमतोऽन्यप्रथैव तस्मात् ॥२९४॥ नैयायिकैरपि न तत्र मतं व्यलोक
भानन्न वा कपिलजैमिनितन्त्रविज्ञः ॥ किन्त्वन्यथाप्रथनमेभिरपि प्रशस्तं
वेदे त्वनिर्वचनगोचरतेव तस्य ॥२९५॥ ख्यातिस्सतां भवति न त्वसतामभावात् स्वाकारसंवरणतोऽन्यपरिग्रहाच्च ।