________________
॥ शून्यवादिमतखण्डनम् ॥
अन्त्ये स्वयं ह्यसत एव विचारतो न शून्यत्वसिद्धिरपि येन जगद्व्यलीकम् ॥ प्रामाणिकै सह कथापि न युज्यते ते कस्ते भवेच्च प्रतिमल्ल इहाल्पविज्ञ ॥ २८०॥ शून्यत्वगोचरप्रमा यदि सम्मताऽस्ति मानन्तदा तव मतेऽपि न शून्यतावत् ॥ नो चेत्तदा प्रमितिगोचरचारिणी नो स्याच्छून्यता जगति येन भवेत्प्रसिद्धा ॥२८१॥ ज्ञानं विनाऽपि जगतः स्वत एव सत्त्वं संवृत्तिसत्वमत एव न सम्मतं नः ॥ ज्ञानानवस्थितिभयान्न ततोऽप्यसत्त्वं
( ५३ )
जाग्रत्सु वस्तुषु भवेत्तव रोदनेन ॥ २८२ ॥ नात्माश्रयो भवति बोधमतेः स्वतस्त्वे प्रामाणिके विबुध दोषतयाऽभ्युपेयः ॥ संवृत्तिसत्त्वमपि जैनमताऽवलम्बाधुक्तन्न किं व्यवहृतेरुपयोगि लोके ॥ २८३|| ग्राह्यं विकल्प्य तव खण्डयतोऽत्र भावः
कः किं घटादि नहि भासत एव बोधे ॥ तद्भासमानमपि वा न विचारमार्ग
युक्त्या प्रयाति तत एव न चाभ्युपेयम् ॥ २८४॥ आस्तवापि नहि सम्मत ईष्यते यत् संवृत्तिसत्त्वमखिलेष्वपि लोकदृष्ट्या ॥