________________
(५२)
न्यायसिन्धौ.
ज्ञानस्वरुपजनने न विशेष एव
कश्चियतो भवतु ते नियमोऽर्थतोऽपि ॥२७॥ प्रामाण्यमर्थघटितं न विनार्थसिद्धि
ज्ञाने प्रसिद्धपति न सापि तमन्सरेण ॥ प्रामाण्यबुद्धिमनपेक्ष्य प्रमा न मान्या तत्त्वेऽप्रमापि तव किन्न प्रमाभ्युपेण ॥२७५॥ प्रामाण्यबुद्धिरपि नैव प्रमास्वरूपा
स्वस्मिन् प्रमास्वमतिमङ्कगताग्निवेश्य ॥ किन्वन्यया भवति साप्यतिरिक्तबुद्ध्या
सिद्धयेत्प्रमात्मकतयेत्यनवस्थितिश्च ॥२७६॥ एवं भ्रमस्वमपि न प्रमिति विनेव,
भ्रान्तो प्रसिद्धथति प्रमापि तथाऽन्यथा स्यात् ॥ इत्यादिदोषगणभीतिविविक्तरूपं
शून्यत्वमेव सकलानुगतन्तु तत्त्वम् ॥२७७॥ एतन्न बौद्धपरिशोलितयुक्तिजालं
युक्तं स्वशिष्यगणमात्रमनोऽधिरूढम् ।। स्याहादलाञ्छितपदार्थतिरस्क्रियायां
सामर्थ्यलेशमपि नैव दधाति यस्मात् ॥२७८|| यन्स्वं विचारमधिकृत्य जगहयलोकं ब्रूषे स सँस्तव भवेदुत वा व्यलीकम् ॥ आये तथैव न भवन्तु समस्तभावाः किं सिद्धिभाज इतरेऽपि न शन्यता ते ॥२७९॥