________________
॥शून्यवादिमतप्रदर्शनम् ॥
(५१)
संवाद्यबुद्धिजननं प्रथमे न युक्तं
संवादकात् क्वचिदसौ न च दृष्टपूर्वम् । अन्त्येऽतिरिक्तजननेऽपि न पूर्वबुद्धौ व्यावर्तकं भ्रममतेरभवच्च किश्चित् ॥२६९॥ यश्चोपकार उपदर्शितबुद्धितोऽभूत्
संवाद्यबुद्धयसमकालतयैव नास्याः॥ भिन्नस्स वा किमपि तत्र करोति नो वा
तत्रानवस्थितिघटा प्रथमेऽनिवार्या ॥२७०॥ अन्त्ये विशेषविरहाद्धमतुल्यतैवासम्बन्धतो भवति तेन हि पूर्वबुद्धेः ॥ अन्त्ये विशेषविरहाभ्रमतुल्यतैव
संवादकात् किमपि न क्रियते यतोऽस्याः॥२७१॥ अर्थे फलं किमपि किञ्च करोति बोधो
नो वा करोति यदि किं व्यतिरिक्तमर्थात् ॥ अर्थस्वरूपमुत वा प्रथमेऽनवस्था पूर्वप्रदर्शितदिशाऽत्र दुरुद्धरैव ॥२७२॥ अन्त्ये यथार्थजननं प्रमया तथैव
भ्रान्त्यापि किन्न न विशेष इहास्ति कश्चित् ॥ बोधः फलं किमपि नार्थगतं विदध्या
दन्त्ये यदा न नियमोऽपि तदा कथञ्चित्॥२७३ ज्ञाने घटायपि करोति यदा विशेषो भिन्नेऽनवस्थितिरिहापि च पूर्वनीत्या ॥