________________
(५०)
न्यायसिन्धौ
नो तर्हि पूर्वमतिगोचरवाधनं स्या
दन्त्ये विभिन्नसमयाग्रहणान्न बाधा ॥२६३॥ किं वा यथोत्तरमतेः प्रथमा मतिस्स्याद्
बाध्या तथैव किमु नोत्तरधोश्च तस्याः ॥ अन्योन्यगोचरविरुद्धमतित्वमाभ्यां व्यावर्त्तते न हि यतः प्रथमस्य बाधः ॥२६४॥ संवादनं भवति सत्यमतौ यथा ते
ज्ञानान्तराद् भवति तहदिहापि किन्नो ॥ द्वित्त्वन्न चन्द्रमसि तैमिरिका अनेके
पश्यन्ति किं ह्यभिलपन्ति न किं मिथस्ते॥२६५ जाग्रदशोत्थमतितो ननु यहदेव
स्वप्नोत्थधीविषयबाधनमस्ति तहत् ॥ स्वप्नात् प्रबोधविषयस्य न बाधनं किं
नैते दशे अपि मिथो भवतो विभिन्ने ॥३६६।। यद्बाधकं तदपि बाध्यमबाधकं स्या
न्मानान्तराच्च तदबाध्यतया मतञ्चेत् ॥ मानान्तरन्तदपि वाध्यतया प्रतीतन्तत्साधकं भवति नेति दृढानवस्था ॥२६७॥ संवादकं यदपि तत्र मतं भवेत्तत्, किञ्चित्करं किमुत वा न करोति किञ्चित् ।। आये त्वभिन्नमुत वा व्यतिरिक्तमेव संवाद्यबुद्धित इदं प्रकरोति तच्च ॥२६८॥