________________
॥ शून्यवादिमतप्रदर्शनम् ॥
(४९)
भ्रान्तिः प्रमेति नहि बोधगतो विशेषः
स्वप्ने प्रबोधसमये च यतो विशेषः॥ संवादितादिघटनाप्युभयोस्समाना नापातमात्रमधुरा ह्यविवेकिनां किम् ॥२५८॥ बोधो भ्रमो भवति बाधितगोचरत्वात
ज्ञानान्तराद्बहुविधोऽत्र विकल्पजालः ॥ ज्ञानान्तरेण किमु तस्य निजस्वरूपहानिर्भवेत् किमुत तद्विषयस्य लोपः ॥२५९॥ आये विनाशजनकात् प्रमितेविनाशो यहत्तथा भ्रममतेः स न बोधतोऽस्मात् ॥ किं बाधिता पटमतिघटबुद्धितो नो पूर्वा तथोत्तरजनेरित एव हेतोः ॥२६०॥ लोपस्सतोऽथ विषयस्य न शक्यतेऽम्स्ये
कत्तुं नु कश्चिदसतोऽपि न युज्यते सः॥ मिथ्यात्वमस्य स हि बोधयतीति चेत्स
तद्ग्राहकः किमु मतः किमु वाऽन्य एव।।२६१॥ चेद्ग्राहकः स्वविषयं स हि बाधतां नो
तत्त्वे भ्रमत्वमपि तस्य भवेत्कथन्न ॥ अग्राहको यदि तदाऽग्रहणान्न वाधा स्याहा कथन्निखिलमेव ततो न वाध्पम् ॥२२॥ मिथ्यात्वबोधनमपीष्टमभिन्नकाले भिन्नक्षणेऽथ प्रथमो यदि सम्मतस्ते ॥