________________
(४६)
न्यायसिन्धौ.
.......................................................
सामर्थ्यतढिरहरूपविरूद्धधा
ध्यासादभिन्नतनुरेष मतो न ते चेत् ॥ ज्ञानं क्षणक्षयमपि प्रमितन्त्वया नो
युक्तं विरुद्धघटनात इहैकरूपम् ॥२४३॥ ज्ञानं स्वसन्ततिगतं विदधाति बोधो
नो भिन्नसन्ततिगतन्तव सम्मतन्तत् ॥ इत्थं विरुद्धघटना क्षणिकेऽपि बोधे
किं स्वान्यसन्ततिसमाश्रयणान्न चास्ति ॥२४४॥ स्वादशनान्न परसन्ततिरस्ति तर्हि
तेनास्य दृष्टिविरहान्न कथं ह्यसत्त्वम् ।। संवेदनात् स्वत इहास्य यदि प्रसिद्धिः
किन्तर्हि तस्य तत एव भवेन्न सिद्धिः॥२४५॥ किश्चान्यसन्ततिलये सुगतोऽपि नो ते
सर्वज्ञ इष्ट उत वा निखिलोऽपि स स्यात् ॥ ज्ञानं विलक्षणमथास्य विनैव युक्त्या ।
नान्यस्य चेतसि पदं विदधाति बौद्ध ॥२४६॥ किञ्चालयाद्भवतु बोधत एव कस्मा
ज्ज्ञानं द्विधा तव प्रवत्तकमालयश्च ॥ तत्त्वेऽथ वा शबलवस्तु न किन्त्वयाऽपि . तहजिनागममतं बहिराहतं स्यात् ॥२४७॥ नो सन्ततिभवति किञ्च मता तवैका स्याञ्चेद्विवाद इह नानि तु केवलं स्यात् ।।