________________
॥ योगाचारमतखण्डनम् ॥
(४५)
appAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA
द्वेषोऽपि तेषु न भवेत् तव निनिमित्तो
जन्मान्धताऽपि तव नश्यतु बाह्यदृष्टेः ॥२३७॥ स्थूलो न बोध इह तेऽनुमतश्च किञ्च
यस्मात् स्वलक्षणमणूपगतन्त्वयैव ॥ अण्वात्मकस्तु न कदाचिदपीक्ष्यते स बोधः कथं भवतु बोधविभासिताङ्गः ॥२३८|| उत्पत्त्यवस्थितिविनाशसमन्वयेन
सत्त्वं स्वरूपत इहार्थगतं प्रसिद्धम् ॥ ज्ञानं विनापि न कथं व्यवतिष्ठतेऽर्थों
दृष्टयार्थस्सृष्टिपरिकल्पनमप्रमाणम् ॥२३९॥ योग्योपलब्धिविरहाढिरहो घटादेस्सिद्धिं प्रयाति न तु केबलबुद्धधभावात् ॥ योग्यत्वमत्र प्रतियोग्युपलम्भकस्य
स्वव्याप्यभिन्ननिखिलस्य भवेच्च सत्त्वम॥२४॥ एवञ्च सन्नपि घटोत्र यदा न दृश्यो
ऽयोग्यत्वमेव तु तदोऽभ्युपगन्तुमर्हम् ॥ नैतावता विरह एव भवेच्च योगा
चारप्ररूपितदिशा जगतोऽखिलस्य ॥२४१॥ प्रद्वेष एष तव चेद्यदि बाह्यभावे ज्ञाने क्षणक्षयनिरूपणमर्थवन्नो ॥ आत्मा त्रिकालकलितो ननु बोधरूपो वेदान्तिनामिव कथन्न मते तवापि ॥२४२॥