________________
(४४)
न्यायसिन्धौ
ARC
Hy.
AN
यो भासते स विषयो बुध नो मतोऽत्राभिन्नोऽथ भिन्न इति वा नियमो न चास्ति ॥ स्याद्वर्तमानमथवा विपरीतमेवा
नेकान्ततः सुगतशिष्य कथं हि दोषः ॥२३२॥ ज्ञानेऽपि वा भवतु किश्च मतिः कथन्ते तादात्म्यतः क्षणिकतादिविशिष्टरूपे ॥ तत्वे क्षणक्षयितया स्वत एव बोधः सिद्धो भवेदनुमितेरनपेक्षणं स्यात् ॥२३३॥ नानन्तधर्मघटनाऽभिमतैकरूपेऽप्यस्त्याश्रये तव यतोऽशविभागतस्स्यात् ।। बोधेऽप्यबोध उत वाऽक्षणिकत्वमिथ्या
रोपादिकल्पनमिति प्रविचारयान्तः ॥२३४॥ किश्चानुमानमपि नैव विभिन्नमर्थ
स्वस्मात प्रकाशयति येन ततोऽपि सिद्धयेत ॥ ज्ञानं क्षणक्षयितया न च ते मते स्याद्
व्याप्तिप्रसिद्धिरपि सर्वसमन्वयेन ॥२३५॥ एतेन तेऽनुमितितोऽनुमतञ्च बोधे
तादात्म्यमर्थप्रतियोगिकमप्यपास्तम् ॥ व्याप्तिग्रहस्य विलयादखिलानुमाया
उच्छेद एव नयतस्तव सिद्धिमेति ॥२३६॥ ज्ञानेषु चेद्यदि विभिन्नधियः प्रकाशो बाह्येषु तर्हि न स किन्नु मतोऽपि येन ॥