________________
(४२) न्यायसिन्धौ. किञ्चास्ति मुक्तिरिति बोधत एव मुक्ति
स्सम्पत्स्यते तव वृथा सुगतस्य सेवा ॥ प्रेक्षावताऽपि सुगतेन वृथैव शास्त्रे
धर्मप्रदर्शनमकार्यपवर्गसिद्धये ॥२२१॥ यहासनातिपरिपाकवशाहिनाऽर्थ ज्ञानादिभेद इह तेऽनुमतो न सोऽपि ॥ युक्तो यतो भवतु सापि कथं विचित्रा बाह्यं विना न परिपाककथाऽपि तस्याः ॥२२२॥ स्वप्नोपमं यदि तु बोधतयैव सर्व
ज्ञानं सतस्सविषयं नहि तहदेव ॥ इत्थन्तदा तव भवेद्यदि बाधितार्था
जाप्रदशामतिरपीह न चैवमेषा ॥२२३॥ यः स्पष्टबोधविषयस्स मृषैव बोध्यः
स्वप्नोपलब्धकनकादिपदार्थवञ्चेत् ॥ बोधोऽपि सिद्धिपदवीन्न तदाऽत्र गच्छेत्
संवेदनाद्विशदतस्स्वत इत्यनर्थः ॥२२४॥ विज्ञानवादमवलम्ब्य तथा कथायां
वादी जयेन्न प्रतिवादिजनं कदापि ॥ वादी न चास्ति प्रतिवाद्यपि नैव नो वा
मध्यस्थ इत्यपि विचारय बोद्ध चित्ते ॥२२५॥ वैज्ञानिकं भवति सत्वमथात्र तेषां नो पारमार्थिकमिदन्तव सम्मतश्चेत् ॥