________________
वैभाषिकयोगाचारयोरपाकरणम् ।
(३९)
भेदेन सङ्घटितमूर्तिरभेद एव
संसर्गमात्रनियतो यत आहतानाम् ॥२०४॥ वैभाषिकः सुगतशिष्य इहाल्पविज्ञस्साकारताविरहितार्थमितिं यदापि ॥ ते तदापि न जिनागमनीतितस्तां स्पष्टीकरोति तत एव बुधैरुपेक्ष्यः ॥२०५।। बोधं तदर्थमपि येन समानहेतु
सामग्रघतस्स समकालमुवाच बौद्धः । युक्तस्स किं यत इह व्यतिरिक्तहेत्वोभिन्नक्षणे तदुभयोजननं प्रसिद्धम् ॥२०६॥ ग्राह्य बहिः स्थितमबाधितबोधभास्यं किन्नत्तकीनयनचेष्टितमीक्ष्यते नो साधारणं परिषदा तत एव योगा
चारप्रपञ्चितमतन्न विचाररम्यम् ॥२०७॥ नोलादिता भवतु तेऽत्र कुतः प्रमाणात्
ग्राह्ये न किन्तु मतिमात्रगतैव बौद्ध ॥ साकारतादिघटना नियता न बाह्यमर्थ विना नियतमज्ञ तवापि बोधे ॥२०८॥ यस्मात्पृथग्भवति यो नियमेन तस्माद्भिन्नोपलम्भविषयस्स निरीक्ष्यतेऽत्र ॥ नीलादिकस्तु मतितो न कदाचिदेव भिन्नोपलम्भविषयस्स कथन्तदन्यः ॥२०९॥