________________
(३८)
न्यायसिन्धौ.
बौद्धोक्तवत्कपिलशिष्यनिभालितोऽपि
साकारवाद इह वृत्तिगतो न युक्तः ॥ कूटस्थनित्यपुरुषोऽत्र न युक्तियुक्तस्तत्प्रक्रिया भवतु येन प्रमाणसिद्धा ॥१९९॥ साकारबोध इह किश्च मतोऽपि जैनैबौद्धप्रदर्शितदिशा न तु सोऽभ्युपेतः ॥ ज्ञानं विशेषविषयं प्रतिपाद्यते यत्
साकारमेतदुपयोगतया प्रसिद्धम् ॥२०॥ साकारताविरहितं प्रवदन्ति बोधं
सामान्यगोचरमनल्पविदां वरिष्ठाः ॥ यत्सोपयोग इह दर्शनसंज्ञया वै । नीतः प्रसिद्धिपदवीं जिनतत्रविज्ञैः ॥२०१॥ अर्थाभिधानमतयो व्यवहारिभिर्यच्चैकेन सद्व्यवहृतौ तु प्रयुज्यमानाः ।। शब्देन तेन नहि सिद्धयति बोधधर्मः
साकारतापि बुध तेऽनुमताऽत्र किन्तु ॥२०२॥ साकारबोध इह येन न चाभ्युपेत
शब्दाभिलाप्य इह तेन न किम्मतस्तः ॥ ग्राह्यार्थशक्तवचनान्ननु येन तस्य
न स्याच्च बोध इह सव्यवहारयोग्यः॥२०३॥ एकाभिलापविषयत्वबलादभेदो भेदेऽपि बोधबहिरर्थकयोमतोऽत्र ।।