________________
ज्ञानेसाकारतावादिनः सौत्रान्तिकस्यापाकरणम् । (३७ )
तस्यैव बिम्बविषयानुमतिनं तेषां
साकारता निखिलबोधगता मता यैः ॥१९३॥ बोधक्षणे क्षणिकवादिमते न सत्ता
कारार्पकस्य विषयस्य मता ततो नो ॥ स्यादन्यकालगतयोर्मतिबाह्ययोस्ते बिम्बादिकल्पनकथापि विचारमार्गे ॥१२४॥ बाह्यो यथैव प्रतिबिम्बति ते मतो किं तन्मतिन्न प्रतिबिम्बति बाह्य एव ॥ तत्र स्वभावमुररीकुरुषेऽथ किन्नो
तेनैव नोऽप्यभिमता विषयव्यवस्था ॥१९५॥ एतेन तार्किकमताद्विषयत्वबन्धाद्
ग्राह्याहिभिन्नतनुतो विषयव्यवस्था ॥ क्षिप्ता स्वभावशरणा यदि ते तदा स्युः
स्याहादिनां सुहृद एव न तद्विपक्षाः ॥१९६॥ वेदान्तिनामपि मते विषयप्रदेश
गत्वा मनोऽपि बहिरिन्द्रियकप्रणाल्या साकारवृत्तिपरिणामभवे घटाद्या
कारत्वयोगि भवतीति न तच्च सत्यम् ॥१९७॥ यस्माच्च तैरपि मता विषयव्यवस्था साकारवृत्तिजनितैव परश्च सापि ॥ नो चेत्स्वभावशरणा व्यवतिष्ठते नो नस्मिँस्तु नेत्रगमनादिककल्पनाऽलम् ॥१९८॥