________________
(३४)
न्यायसिन्धों
योग्यत्वमत्र फलगम्यमतः प्रतीतौ
यस्यैव यत्र विषयस्य भवेत्प्रकाशः ॥ पूर्वः परो भवतु वा निकटोऽथ दूर
स्तस्यास्स एव विषयस्सविकल्पिकायाः ॥१७७॥ तस्मात् कथं सकलपूर्वपरादिभावः
स्याद् गोचरोऽक्षजधियोऽथ च सर्ववित्त्वम् ॥ किं वर्तमानमखिलन्तव भासते नो
किं वा तथा निकटवर्तिसमस्तभावाः ॥१७८॥ नन्वेवमस्तु सविकल्पबोधसिद्धिस्साकारताऽस्य किमु तद्विपरीतता वा ॥ साकारता सुगतशिष्यमता तु तत्र जागर्ति युक्तिनिवहानुगता न हेया ॥१७९॥ आकारमुक्तमिह नैव निरीक्ष्यते यज्
ज्ञानं तदज्ञजनकल्पितमेव सन्नो ॥ साकारपक्षविमुखाद्विषयव्यवस्था
ज्ञानात् तथा न नियतान्यमते कथञ्चित् ॥१९०॥ कुम्भः पटोऽयमिह नीलमियञ्च शुक्तिरेषा नदी पनस एष इयं वनाली॥ इत्यादिबोधजनिता व्यवहारयोग्या
साकारवादिनि भवेद् विषयव्यवस्था ॥१८१॥ विज्ञैरपि व्यवहृतो ननु किं घटायाकारा मतिन्नयनतो विशदावभासा ।।