________________
शब्दस्य पौद्गलिकत्वव्यवस्थापनम् ।
( ३३ )
रात्रिञ्चरादि तदपेक्ष्य यतो रजन्यां स्पष्टं विलोकयति तद्व्यभिचारि हेतुः || १७१ ॥ नाभावता तमस आर्हतसम्प्रदाये
इष्टा तु पौगलिकताऽतितरादियोगात् ॥ तेजोऽणुभिर्भवति तस्य जनिस्तथाऽस्मिन् स्पर्शश्च शीतलतयाभिमतो बुधानाम् ॥ १७२॥ नो जातिभेद इह जैनमतानुगाना
मिष्टेषु पुगलतयाऽणुषु सम्मतो यत् ॥ तेजोऽणवोऽपि तत एव भवन्ति शीतास्तज्जन्तमः पवनतोऽस्य मतिश्च शीते ॥ १७३ ॥ तस्मान्न चाक्षिचरणानुमतोऽत्र शब्दो
नाकाश श्राश्रयतयाभिमतोऽस्य जैनैः ॥ भिन्नाश्रितं जगदिदन्न ततः कथं स्यान्नेत्रोद्भवापि सविकल्पनबुद्धिरेषाम् ॥१७४॥ येनैव योऽत्र सहितोऽसहितोऽपि तेन नैकान्ततः किमपि सम्मतमागमेऽस्मिन् ॥ योऽनावृतः स तु न तेन भवेद्विशिष्ट
इत्यादि ते न वचनं वचनीयमेव ॥ १७५ ॥ प्राप्तप्रकाशपटु नेन्द्रियमत्र किञ्चावष्ठब्धदेशमतिरक्षभवा न किं स्यात् ॥ आधारसङ्घटितमूर्त्तिरतोऽक्षजन्य
आधेय इष्ट इह भास्यतया च बोधे ॥ १७६ ॥