________________
न्यायसिन्धौ.
मार्जारचक्षुरिह बाह्यप्रकाशयुक्तं चक्षुष्ट्वतो भवति रूपमतौ समर्थम् ॥ यद्वदिवा मनुजनेत्रमिति प्रमाणं
किन्नास्त्यदृश्यरचिरश्मिषु रात्रिषु ॥ १६६ ॥
उद्भूततापरिगतास्स्वत एव ते चेन् - मार्जारचक्षुषि पदार्थमतौ समर्थाः ॥ नो तादृशा मनुजचक्षुषि तेन तेषां रात्रौ न सूर्यकिरणस्य भवेद्व्यपेक्षा ॥ १६७ ॥ यादृशं भवति दर्शनगोचरस्तत्
( ३२ )
त्वं स्वीकरोषि यदि तादृशमेव विद्वन् ॥ नेत्रे दिवा कथमदर्शनगोचरास्ते
रात्रौ न किं रविकरा अपि तादृशास्स्युः ॥ १६८॥ किं वा सुवर्णमपि समानमेवा, नुद्भूतरूपमपि ते न प्रकाशकं स्यात् ॥ योग्यत्वमत्र शरणं यदि तैजसत्वं व्यर्थन्तदा नयनगं परिकल्पितन्ते ॥ १६९ ॥ सूर्याशवोऽथ यदि सन्निहिता रजन्यां किं रूपगोचरमतिर्न भवेन्नराणाम् ॥ नैवं कथं भवति तार्किक सूर्यरश्मौ नोकपक्षिण इहाहि मतिर्विशुद्धा ॥ १७० ॥
दीपो यथा भवति रूपमतौ समर्थ - स्तद्वत्तमोऽपि कथमस्य न तैजसत्वम् ॥