________________
चक्षुषस्तैजसत्वापाकरणम् । (३१) शब्दे भवेष्ट्यवहितेऽपि ततश्च शब्दो
द्रव्यं श्रुतिः परिचितैव तयोस्तु प्राप्तिः ॥१६०॥ शक्तिस्तथात्र बहिरिन्द्रियमात्रवृत्तिः
प्रत्येकमेव नियता जिनसम्प्रदाये ॥ तस्याः क्षयाबधिरताद्युपपद्यतेऽत्र नादृष्टकल्पनभवोऽपि महान्प्रयासः ॥१६॥ तस्या बलान्नयनजा युगपन्मतिस्तु
संजायते शशिनि शाखिनि चैव विहन् । संयोगतो यदि भवेत् क्रमतस्तदानीं
चन्द्रे च शाखिनि मतिहयमेव नैका ॥१६॥ नो रश्मिमन्नयनमस्ति कुतोऽपि मानात सिद्धं यतोऽत्र नयनात्तव निःसृतास्ते ॥ चन्द्रश्च शाखिनमपि प्रजवेन गत्वा संयुज्यमानतनवो ह्यवभासयन्तु ॥१६३॥ मध्ये रसादिषु भवेद्यदि रूपमात्रप्रोद्बोधकत्वत इदन्ननु तैजसन्ते ॥ तस्माच्च दीपकलिकेव समस्ति रश्मि
चकास्पदन्तदपि तन्न विचाररम्यम् ॥१६॥ प्रत्यक्षबाध इह पक्षगतो हि दोषश्चक्षुन्न रश्मिसहितं क्वचिदप्यलोकि ॥ योग्या न रश्मय इतीक्षणगोचरा नो चेतर्हि भास्करकरा अपि किन्न रात्री ॥१६५॥