________________
( ३० )
न्यायसिन्धौ,
नन्वत्र तार्किकमतेन विभुर्निरंशशब्दाश्रयः प्रथित एष न किन्तवापि ॥ येनांशकल्पन परिश्रमतोऽपि मुक्तिः
श्रेयस्करी नभसि ते भविता तदानीम् ॥ १५५॥ शब्दो गुणो यदि भवेन्ननु युक्तमेतत्
स्यात्किन्तु पौगलिक एष मते जिनानाम् ॥ सङ्ख्याक्रियादिमतिरत्र यतो गुणत्वा
भावप्रसाधनपरा विशदा न बाध्या ॥ १५६ ॥ साक्षान्न तस्य यदि किन्तु परम्परात
सङ्ख्या तवाश्रयगता किमु हेतुगा सा ॥ द्वित्त्वादिधीनहि भवेत् प्रथमे द्वितीये
स्यादेकतामतिलयो बहुकारणोत्थे ॥१५७॥ दूरादयं झटिति शब्द उपागतोऽयं शाङ्खश्रुतिञ्च बधिरीकुरुते बलीयान् ॥ शैले स्वयं प्रतिहतः पुनरेति कर्णे
द्वारदतोऽयमखिलो मम भाति नो ते ॥ १५८॥ इत्यादिधर्भवति तत्र विना न कर्म
सत्त्वे च तस्य गुणता नहि युक्तिसिद्धा ॥ सर्वा मतिर्मतिमतामुपचारतो नो मुख्यात्तथाभ्युपगमे वद कोऽत्र दोषः ॥ १५९ ॥
नाकाशरूपमिह तु श्रवणं मतं च तत्त्वेऽखिलस्य युगपत्पुरुषस्य बुद्धिः ॥